________________
१२४
याचतेऽनन्तकारुण्यतारुण्यवत्सद्गुरोरेतदावेद्य धर्माशिषः । एकलव्येऽर्जुने सूतपुत्रेऽमिताऽऽ चार्यनिष्ठैव साफल्यलक्ष्मीप्रसूः ॥३७॥
नीवृतान्निर्वृतायामथर्तावभूद् भानुभाभास्वरो घस्त्रवर्गश्चिराद् । कर्दमह्रासतः शुद्धमार्गक्रमो वेगशान्त्याऽऽपगानौपथोद्घाटना ॥३८॥
गूर्जरात्रे मरोर्याति मुख्ये पथि स प्रतस्थे पदैरल्पभारस्तनौ । भुक्तिपीतिवियुक् स्वाददेहाऽरतः भक्तिप्रीतिसयुग् देवतासाधुषु ॥३९॥
हस्तिनाऽश्वेन सौख्यासनेनाऽन्तराऽ सौ प्रवासे प्रयाति प्रणुन्नः प्रभौ । देवदेवे युगादौ हितादेशिनि नाभिजातेऽभवे मारुदेवे शिवे ॥४०॥
अञ्जलौ यष्टिशृङ्गस्थ - कूर्चाननान् पादपीठीः समुन्नासिका धायिनः । रक्तपट्टानुबद्धोत्तमाङ्गान् मरावुष्ट्रसंरक्षकान् मार्गतोऽभालयत् ॥४१॥
द्वीपदन्ताकृतैः कङ्कणैर्भूरिभिबहुधायैः क्वणन्त्योऽङ्गनाः कोमलाः । अङ्गणे गोमयालेपिका दर्शयन्त्यस्य गार्हस्थ्यचातुर्यमर्धाऽऽनताः ||४२||
श्रीमाणिभद्रमहाकाव्यम् ७