________________
हेमसूरिं तथाऽनन्दसूरिं गुरुस्थानमारोप्य सर्वाणि पापान्ययम् । वर्णयत्यात्मना सेवितान्यस्खलत्पापगर्दाभिरेवात्मशुद्धिर्भवेत् ॥३१॥
सिद्धशैलस्य माहात्म्यमाकर्ण्य स सद्गुरोश्चिन्तयामास चित्ते यथा । घातकैस्साधुनिर्भर्त्सनापातकैर्बाधितोऽनन्तसंसारवानस्म्यहम् ॥३२॥
अज्ञतायां कृते स्यादपि क्षालनं स्वीयमत्या तु नालोचना काचन । नूनमर्हद्गुरुष्वस्तसद्भावनोऽ हं महाकल्मषो निर्गमी नारके ॥३३॥
सांप्रतं पूज्यते देवता स्तूयते सद्गुरुस्तेन पूर्वापराधक्षयः । स्यान्नहि स्वादितैरामिषैरुद्भटैरर्जितांहस्सु किं कुर्वतां लङ्घनम् ? ॥३४॥
कर्मणां मर्मणां छित्तये याम्यहं शत्रुजित्पर्वते तीर्थनाथे यतः । अन्यभूमौ कृतं पापमत्युत्कटं तीर्थभूमौ कृतैः सत्कृतैर्नश्यति ॥३५॥
यावता पूर्वपापक्षयो नो भवेद् तावताऽऽहारचारे विरामोऽस्तु माम् । कार्तिकीपूर्णिमातः कृतोपोषणो यामि पादात एकाक्यहं यात्रया ॥३६॥
१२२
श्रीमाणिभद्रमहाकाव्यम् ७