________________
रेणुभूमौ हि कोऽपि प्रसादोऽभवच्छीततालाघवादुष्णतासंयमाद् । धूलिरेखावलिस्सङ्ख्ययाऽनन्तकाऽ ब्धेस्तरङ्गैस्समा चञ्चला नृत्यति ॥१९॥
कूपवापीसरस्स्वप्सु कुम्भान् क्षिपन्अञ्चलैरावृताऽऽस्योऽङ्गनानां गणः । कङ्कणक्वाणितैर्मस्तके तान् वहन् कोमलैश्चालनयति माध्यन्दिनम् ॥२०॥
पक्वखर्ज़रिकामद्यपानोपमश्चेद् वसन्तो मरौ नाभ्युपेयात्ततः । अङ्गनानर्तनैरङ्गनिर्वर्णनैः पुष्पवर्षा रह: स्यात्कुतो यौवने ॥२१।।
षट्पदाश्लिष्टपुष्पावलिप्रच्छदाः पर्वतास्सन्ति नीलैर्वनैरञ्जिताः । कोकिलालापतारस्वरे निर्झरमन्द्रगम्भीरता पूर्यते स्वोचिता ।।२२।।
सान्ध्यकाले वसन्ते मरुन्मन्थरः दोलया दोलयन्ती वधू मन्दते । अत्रतस्तत्रतो यातया या तया क्षिप्रता धार्यते तां हि मन्वन् मधुम् ॥२३॥
ग्रीष्मभीष्मेष्वहस्सूद्धतैः सैकतैः स्वेदनाच्चिक्कणत्वक्षु शूलायते । रात्रिशान्ता त्वनौद्धत्यवद्वालुका कान्तकौमल्यतः पुष्पपत्रायते ॥२४॥
११८
श्रीमाणिभद्रमहाकाव्यम् ७