________________
प्रकटसप्तनयैस्तनयः प्रभोस्तमकरोदकरोदकपूजिनम् ।। विशदबोधनतं धनतत्सदं विसमरं समरत्नरजा: गृहे ॥४३॥
यतनया भगवद्चनार्चनानियमसङ्ग्रहवान् गुरुवाक्यतः । सततमेति धनी गृहमन्दिरे गजगतेन गते नगराद् गुरौ ॥४४॥
मूर्तिं मङ्गलमालिकामुपलवन् माऽऽलोकयन्तु प्रजा इत्यालोच्य विशालपुष्परचनैः श्रेष्ठी मुदाऽपूजयत् । अर्चा तद्विहितां विलोक्य जननी-वध्वोः प्रमोदोऽभवत् पुण्यानां परिवर्धनं प्रभवति प्रत्यक्षमेवार्चनात् ॥४५॥
११०
श्रीमाणिभद्रमहाकाव्यम् ७