________________
गलतु गर्हितग्रन्थिगणा गणिन् । चलतु चारुचरित्रजचर्चरी । ज्वलतु जित्वर ! जागृतिजागृविः मदवनी च वनी चरति प्रभौ ॥३७।।
मुनिप ! गेहमलङ्क मे सकृद् मनसि धारय शब्दममुं लघु । यदपि वाक्यमनादरतोऽलपं सहजविस्मर ! विस्मर तद् रयाद् ॥३८॥
त्वयि वदत्युपगेहमहं प्रभो ! नवतरामुपयामि सुधर्मिताम् । प्रकटमस्ति च कामिजनेष्वपि जलदगजितमजितमन्मथम् ॥३९॥
तव चरित्रपवित्रपदाम्बुजैः सुरभिते त्वभितः सति मे गृहे । न विचरेयमहं गृहगोऽपि सन् सुगुणमण्डल ! मण्डलवद् भवे ॥४०॥
इति धनिप्रथितैरनुवर्तनैगुरुरमुष्य विलोक्य सदाग्रहम् । सकलसङ्घयुतोऽगमदत्वरं शुभवने भवनेऽस्य सवादनम् ॥४१॥
गुरुवरागमनोल्लसदात्मनो धवलकान्तिविलासवृता बभुः । धनिकमातृवधूप्रभृतेस्तदा ऽऽननघटा न घटा इव राजताः ॥४२।।
१०८
श्रीमाणिभद्रमहाकाव्यम् ६