________________
सर्गः ६
(द्रुतविलम्बितवृत्तम् )
विमलपर्षदि धर्मकथामृताऽऽ चमनलीनजनेष्वयमासत । गुरुगिरा गुणगीतिगभीरया रसमयान् समयान् समयान्न सः ॥१॥ मुनिरुवाच भवभ्रमणोद्धते रतिवशेऽरतिवत्यनलं गुरुः । मदिरयाऽऽहतचेतनवत्स्वहो दिनकरो न करोति विबोधनम् ॥२॥ अनवबुद्धभविष्यदशैर्जनैविरचिता नितमां ममतावशाद् । कुशलकर्मलवाऽऽप्तधनादिके ध्रुवमतिर्वमति व्रतपात्रताम् ॥३॥ प्रथमतो मतिमोहनमेदुराः सपदि सद्गुणनिग्रहलालसाः । अनुचिताऽऽचरणाचरणाग्रहा सुखलवा खलवागिव दुस्सहाः ॥४॥ अविरतं परिवाररतिर्मुदा सुगृहिधर्मधिया यतते जनः । त्रिविधपापमयं तमुपाश्रितः न किमदुग्धमदुग्ध गवाञ्चलम् ॥५॥ नियतपुण्यहरी भयविस्तरी क्लमकरी सुखभुक्तिरिहात्मनः । बहुमलाविलदेहसमागमरसिकता सिकतास्वदनोपमा ॥६॥
श्रीमाणिभद्रमहाकाव्यम् ६