________________
स निस्सृत्य गेहादनौत्सुक्यभग्नोऽपि चित्तानुतापोपजातत्वराभिः । चलन्नेव कोषीवियुक्पद् नगर्या पथेन प्रतस्थे यथा श्रान्तसिंहः ॥४३।।
स हट्टान् निवासान् चतुष्कान्यतीत्य समायातवान् साधनाऽऽवासपार्श्वम् । निदध्यावस्थायुको द्वारभागे मुनि पातकानां मले मेघतुल्यम् ॥४४॥
धर्मग्रन्थसमर्थितोचितवचोव्यक्तिक्षम पर्षदालोकान्तःकरणार्पितोत्कटशमं वैराग्यविस्तारिणम् । आचार्यप्रवरं समाधिनिलयं सार्वज्यवाचस्पति हेमाद्यं विमल गुरुं मुनिकुले नक्षत्रनाथोपमम् ॥४५॥ युग्मम् ।
श्रीमाणिभद्रमहाकाव्यम् ६