________________
पुनस्तत्र यात्वा स्मशाने मुनि तं प्रणम्य क्षमायाचनामेव कुर्याम् । इति ध्यातवान् लज्जयैवाऽवबद्धः न यातुं न च स्थातुमप्युद्यतोऽभूत् ॥३७॥
दृशोस्साधुदाहावलोकाघवत्योन निद्राऽनुकूलाऽभवत्तत्र नक्तम् । स्वकृत्येन पीडां स्वयं संविदानो गलच्छक्तिरुद्ध्वस्तशान्तिस्स आसीत् ॥३८॥
निशा निर्दिशाऽऽसीत्तमोभिः प्रणुन्नैर्यमीनीरमग्नेव पूर्निश्चलाऽऽसीत् । गृहं भस्मनाच्छन्नमासीन्नु कृष्णं तनुस्सर्पदष्टेव चासीज्जडाऽस्य ॥३९।।
विधायोपधानेऽश्रुधाराङ्करेखां स्वधर्मोदकैरास्तरं पूर्णमाम् । मुखश्यामतामुग्रनिश्वाससगैंरवाप्यातिचक्राम रात्रिं कथञ्चित् ॥४०॥
समुत्थाय नित्यानि कर्माणि तन्वन्नशब्दोऽत्वरोऽसावनुत्साहवाही । अपात् किं किमादच्च किं पर्यधत्तेति जज्ञौ न सोऽध्यात्मयोगीव भिक्षुः ॥४१॥
न दृष्टिः पपाताऽङ्गनायां जनन्यां न भृत्येषु काचिद् बताऽऽज्ञा प्रवृत्ता । न केशादिशोभार्थमादर्शवीक्षा । नवः कोऽपि माणिक्यसिंहो विरागी ॥४२।।
श्रीमाणिभद्रमहाकाव्यम् ५