________________
८६
विचिन्त्यैवमत्यन्तमाविष्टचेताः
करेण ज्वलत्काष्टखण्डं गृहीत्वा । तदुद्द्योतविद्योतितास्यं मुनीन्द्रं भयातीतमालोक्य पार्श्वस्थितोऽभूत् ॥१९॥
मुनेर्नासिकायाः समक्षं कृशानोशिशखामानयन्नन्त्यजेनेव पापः । मुनेर्दर्शनान्नृत्यतां न ह्यजानत् स्मशानानलानां मुदं रोषणान्धः ॥ २० ॥
मुखे भ्रूलतायां कपोलेऽधरे च श्रुतौ मीलिताक्षौ पतत्तीव्रतेजः । शुचिः पावकश्चेति शब्दद्वयाख्यां ददौ सार्थकत्वं तदा चित्रभानोः ॥ २१ ॥
मुनेर्मा ज्वलद्दाहपीडा भवन्तु विचार्येति नीराधिदेवेन किन्तु । कृता स्वेदधारा मुनेर्भालपट्टे तदेकैकबिन्दून् किमग्निर्ननाम ॥२२॥
अचन्द्रा निशा वह्निभास्वन्मुखेन सहस्त्रांशुनोद्योतितेवाथ साधोः । परं राहुवत् पार्श्ववर्ती स गेही न तेजस्वितांशे प्रणीतिं जगाम ॥ २३ ॥
समत्वाधिरूढे मुखे स्वार्थ भावं समाधिस्पृशोर्नेत्रयोर्दम्भदोषम् । प्रसन्नस्मिते चाधरे वाक्छलानि स पश्यन्नबोधावधीरो बभूव ॥ २४ ॥
श्रीमाणिभद्रमहाकाव्यम् ५