________________
८४
तमोलीनतायामपि प्रौढभावाच्छवस्थैर्यवत्त्वेऽपि च श्वासवत्त्वात् । शिलानिश्चलत्वेऽपि देहे मृदुत्वा ललक्षैष तत्कालमानन्दसूरिम् ॥१३॥
उदन्तं मुनेः पूर्वमासाद्य सोऽयं द्विषन्नागतस्तत्परीक्षार्थमत्र । तथा चिन्तयामास दृष्ट्वा च साधुं यथा कर्पूरेणेव नष्टं शुभत्वम् ॥१४॥
अहो ! मूर्तिवज्जाड्यमालम्बितोऽसौ स्मशानेऽत्र सम्मोहिनीसाधनार्थम् । स्थितोऽसौ प्रयोगैरमीभिर्हि नूनं जनानां मनस्सु प्रभावं तनोति ॥ १५ ॥
निजैगौरवैरेव तुष्टिं दधानः कथं साधनासौख्यभुक् साधुरेषः । अहो ! ख्यातिलाभार्थमायान् स्मशानं स्वयं निःस्पृहत्वाद्धि दूरं जगाम ॥ १६ ॥
विभोमूर्तिमालम्बनं सज्जनानां वदन्नेष मूर्ति विहायैव गुप्तम् । इहाऽऽगादहो दुर्जनानां चरित्रम् वचस्यन्यदस्ति क्रियायां तथाऽन्यद् ॥१७॥
स्मशानस्य वैजन्यमाश्रित्य काञ्चित् क्रियामत्र सम्पादयेत्तावदेनम् । करोमि च्युतस्थैर्यमापन्नभीतिं मुधा सै मुग्धान् यथा नावृणोति ॥ १८ ॥
श्रीमाणिभद्रमहाकाव्यम् ५