________________
सर्गः ५
(भुजङ्गप्रयातवृत्तम्)
नभस्यस्तमभ्यस्तवत्यंशुवाहे तमिस्र बभूवाऽक्षिनिर्बाधकारि । पथं सन्तमालोकितुं नो शशाक शशाङ्कानुपेतो जनः कश्चनापि ॥१॥ अयाद् ध्वान्तधाराभिरारम्भसङ्घ स्समं घोषणादिस्वरो विश्रमत्वम् । तमोभीरुसत्त्वैः प्रदीपप्रभाभियूँहोत्सारितं गह्वरत्वं तमोऽगात् ॥२॥ मरुघृष्टकोटिध्वजस्फूर्तशब्दैः स्वसम्पद्यशोगीतमाकर्ण्यमानः । तमिस्राऽऽद्ययामान्तकाले प्रतस्थौ धनीशोऽटनार्थं पुरीसीमदेशे ॥३॥ दृशामप्रवेशं दिशामप्रकाश जगज्जातमाघातमायात्तमोभिः । अनातङ्कमस्ताघनक्तं नगर्या बहिस्तात् स दधे भुजङ्गप्रयातम् ॥४॥ सरित्तीरचारैः प्रयान् नीरनिष्ठान्यनन्तान्यहो तारकान्यालुलोक । रविस्मारणैरेकसर्गेण नूनं धरादेवतादिव्यचक्षुर्जलानि ॥५॥ शनैरेष घोरेन्धकारेण्ग्रगामी सुदूरं ददर्शेषदग्निस्फुलिङ्गान् । स्फुरत्कौतुकोऽभ्याशमेति स्म तेषां तमायाः कषे स्वरखासमानाम् ॥६॥
श्रीमाणिभद्रमहाकाव्यम् ५