________________
वचनावलिनाऽप्यलमुल्बणया स्वयमेव विचारणमर्हसि भोः । विमलान्तिमहेमगुरोश्चरणे व्रज नूनमपेक्षिततर्क इति ॥४९॥
गुरुमत्र परीक्षणया प्रथम तपनीयवदेव विलोक्य बहु । परिचारकताविषयीकुरुते मतिमाननुपेक्षितदोषलवः ॥५०॥
विरता वचनैर्जननीति सुतः शिरसा प्रणतैरवधार्य वचः । गुरुहेमसमागमवाञ्छनया समदर्शयदुत्तमवैनयिकीम् ॥५१॥
परिवारमभिन्नमिवाकलयन् निजनिश्चयमात्मसमं ह्यमनत् । द्वयमेव समं गणयेद् रजनी ननु तारकवृन्दमुदग्रतमः ॥५२॥
पयसामिव चास्ति घृतस्य तयोनियमोऽनियताऽवधिकः कठिनः । अवगम्य यथास्थितमेतदपि गहिवर्य उदासमना अभवत् ॥५३॥
श्रान्तानामथ चर्चया समभवत् साहाय्यकारी रविः पाश्चात्यं पथमागतः समुचितस्थापत्यसौवर्ण्यकृत् । आयाता हिमता स्वभावसुभगक्षिप्रानदीस्पर्शनाद् वायौ मन्दगतौ मदोन्मदकरे वार्ता गताऽस्तं तया ॥५४॥
श्रीमाणिभद्रमहाकाव्यम् ५