________________
४६७
શ્રીતત્ત્વાધિગમસૂત્ર ॥ ७-१७ ॥ शङ्का-काक्षा-विचिकित्सा-ऽन्यदृष्टिप्रशंसा-संस्तवाः सम्यग्दृष्टेरतिचाराः ॥ ७-१८ ॥ व्रत-शीलेषु पञ्च पञ्च यथाक्रमम् ॥ ७-१९ ॥ बन्ध-वध-छविच्छेदा-ऽतिभारारोपणा-ऽन्नपाननिरोधाः ॥७-२० ॥ मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहारसाकारमन्त्रभेदाः ॥ ७-२१ ॥ स्तेनप्रयोग-तदाहतादान-विरुद्धराज्यातिक्रम-हीनाधिक-मानोन्मान-प्रतिरूपकव्यवहाराः ।। ७-२२ ॥ परविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमना-ऽनङ्गक्रीडा तीव्रकामाभिनिवेशाः ॥७-२३॥ क्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदास-कुप्यप्रमाणातिक्रमाः ॥ ७-२४ ॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रम-क्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥ ७-२५ ॥ आनयन-प्रेष्यप्रयोग-शब्द-रूपानुपात-पुद्गलक्षेपाः ॥ ७-२६ ॥ कन्दर्प-कौत्कुच्य-मौखर्या-ऽसमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥ ७-२७॥ योगदुष्प्रणिधाना-ऽनादर-स्मृत्यनुपस्थापनानि ॥ ७-२८ ॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गा-ऽऽदाननिक्षेप-संस्तारोपक्रमणाऽनादर-स्मृत्यनुपस्थापनानि ।। ७-२९ ।। सचित्तसंबद्ध-संमिश्राऽभिषव-दुष्पक्वाहाराः ।। ७-३० ॥ सचित्तनिक्षेप-पिधान-परव्यपदेशमात्सर्य-कालातिकमाः ॥ ७-३१ ॥ जीवित-मरणाशंसा-मित्रानुरागसुखानुबन्ध-निदानकरणानि ॥७-३२ ॥ अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ७-३३ ॥ विधि-द्रव्य-दातृ-पात्रविशेषाच्च तद्विशेषः ॥ ७-३४ ॥
.मामो मध्याय . मिथ्यादर्शना-ऽविरति-प्रमाद-कषाय-योगा बन्धहेतवः ॥८-१॥ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ।। ८-२ ।। स बन्धः ॥ ८-३ ॥ प्रकृति-स्थित्यनुभाव-प्रदेशास्तद्विधयः ॥ ८-४ ॥ आद्यो ज्ञान-दर्शनावरण-वेदनीय-मोहनीया-ऽऽयुष्क-नाम-गोत्राऽऽन्तरायाः ॥ ८-५ ॥ पञ्च-नव-द्व्यष्टाविंशति-चतु-ढिचत्वारिंशद्द्वि-पञ्चभेदा यथाक्रमम् ।। ८-६ ॥ मत्यादीनाम् ॥ ८-७ ॥ चक्षुरचक्षु