________________
४६६
શ્રીતત્ત્વાધિગમસૂત્ર देवाऽवर्णवादो दर्शनमोहस्य ॥ ६-१४ ॥ कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ।। ६-१५ ॥ बह्वारंभ-परिग्रहत्वं च नारकस्यायुषः ॥ ६-१६ ॥ माया तैर्यग्योनस्य ॥ ६-१७ ॥ अल्पाऽऽरम्भ-परिग्रहत्वंस्वभावमार्दवा-ऽऽर्जवं च मानुषस्य ॥ ६-१८ ॥ निःशील-व्रतत्वं च सर्वेषाम् ॥ ६-१९ ॥ सरागसंयम-संयमासंयम-ऽकामनिर्जराबालतपांसि-दैवस्य ।। ६-२०॥ योगवकता विसंवादनं चाशुभस्य नाम्नः ॥ ६-२१ ॥ तद्विपरीतं शुभस्य ।। ६-२२ ॥ दर्शनविशुद्धिविनयसंपन्नता शील-व्रतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोग-संवेगौ शक्तितस्त्यागतपसी, संघ-साधु-समाधि-वैयावृत्त्यकरणमर्हदाचार्य-बहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणि-सर्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ ६-२३ ॥ परात्मनिंदाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ ६-२४ ॥ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥ ६-२५ ॥ विघ्नकरणमन्तरायस्य ।। ६-२६ ॥
+ सातमो मध्याय . हिंसा-ऽनृत-स्तेया-ऽब्रह्म-परिग्रहेभ्यो-विरतिव्रतम् ॥ ७-१ ॥ देश-सर्वतोऽणु-महती ।। ७-२ ॥ तत्स्थै र्यार्थं भावनाः पञ्च पञ्च ।। ७३ ॥ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥ ७-४ ॥ दुःखमेव वा ॥ ७-५ ॥ मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमाना-ऽविनयेषु ।। ७-६ ।। जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७-७ ॥ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ ७-८ ॥ असदभिधानमनृतम् ॥ ७-९ ॥ अदत्तादानं स्तेयम् ॥ ७-१० ॥ मैथुनमब्रह्म ।। ७-११ ॥ मूर्छा परिग्रहः ।। ७-१२ ॥ निःशल्यो व्रती ।। ७-१३ ।। अगार्यनगारश्च ॥ ७-१४ ॥ अणुव्रतोऽगारी ॥ ७-१५ ॥ दिग्-देशाऽनर्थदण्डविरति-सामायिक-पौषधोपवासोपभोग-परिभोगपरिमाणाऽतिथिसंविभागवतसंपन्नश्च ।। ७-१६ ।। मारणान्तिकी संलेखनां जोषिता