________________
શ્રીતત્ત્વાધિગમસૂત્ર
૪૬૫ पुद्गलाः ॥ ५-२३ ॥ शब्द-बन्ध-सौक्ष्य-स्थौल्य-संस्थान-भेदतमश्छायाऽऽतपो-द्योतवन्तश्च ।।५-२४ ।। अणवः स्कन्धाश्च ।। ५-२५ ।। संघातभेदेभ्य उत्पद्यन्ते ॥५-२६ ॥ भेदादणुः ।। ५-२७ । भेदसंघाताभ्यां चाक्षुषाः ॥ ५-२८ ॥ उत्पाद-व्यय-ध्रौव्ययुक्तं सत् ॥ ५-२९ ॥ तद्भावाव्ययं नित्यम् ॥ ५-३० ॥ अर्पिताऽनर्पितसिद्धेः ।। ५-३१ ।। स्निग्धरूक्षत्वाद् बन्धः ॥ ५-३२ ॥ न जघन्यगुणानाम् ॥ ५-३३ ॥ गुणसाम्ये सदृशानाम् ।। ५-३४ ॥ व्यधिकादिगुणानां तु ।। ५-३५ ॥ बन्धे समाधिकौ पारिणामिकौ ।। ५-३६ ।। गुणपर्यायवद् द्रव्यम् ।। ५३७ ॥ कालश्चेत्येके ।। ५-३८ ॥ सोऽनन्तसमयः ।। ५-३९ ।। द्रव्याश्रया निर्गुणा गुणाः ॥ ५-४० ॥ तद्भावः परिणामः ॥ ५-४१ ॥ अनादिरादिमांश्च ॥ ५-४२ ॥ रूपिष्वादिमान् ।। ५-४३ ॥ योगोपयोगी जीवेषु ॥ ५-४४ ॥
मध्याय . काय-वाङ्-मनःकर्म योगः ॥ ६-१ ॥ स आस्रवः ।। ६-२ ॥ शुभः पुण्यस्य ।। ६-३॥ अशुभः पापस्य ।। ६-४॥ सकषायाऽकषाययोः साम्परायिकेर्यापथयोः ॥६-५ ॥ इन्द्रिय-कषाया-ऽव्रत-क्रियाः पञ्चचतुः-पञ्च-पञ्चविंशति-संख्याः पूर्वस्य भेदाः ॥ ६-६ ॥ तीव्र-मन्दज्ञाता-ऽज्ञातभाव-वीर्याधिकरण विशेषेभ्यस्तद्विशेषः ॥६-७॥ अधिकरणं जीवाऽजीवाः ॥ ६-८ ॥ आद्यं संरम्भ-समारम्भा-ऽऽरम्भ-योग-कृतकारिताऽनुमत-कषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ६-९॥ निर्वर्तनानिक्षेप-संयोग-निसर्गा द्वि-चतु-ढेि-त्रिभेदाः परम् ॥ ६-१० ॥ तत्प्रदोष-निह्नव-मात्सर्या-ऽन्तराया-ऽऽसादनोपघाता ज्ञानदर्शनावरणयोः ॥६-११॥ दुःख-शोक-तापा-ऽऽक्रन्दन-वध-परिदेवनान्यात्मपरोभयस्थान्य-सद्वेद्यस्य ॥६-१२ ॥ भूत-व्रत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ॥ ६-१३ ॥ केवलि-श्रुत-सङ्घ-धर्म