________________
४६४
શ્રીતત્ત્વાથિિધગમસૂત્ર सागरोपमे ॥ ४-३४ ॥ अधिके च ॥ ४-३५ ॥ सप्त सानत्कुमारे ॥ ४-३६ ॥ विशेष-त्रि-सप्त-दशैकादश-त्रयोदश-पञ्चदशभिरधिकानि च ॥ ४-३७ ॥ आरणाऽच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ॥ ४-३८ ॥ अपरा पल्योपममधिकं च ॥ ४-३९ ॥ सागरोपमे ।। ४-४० ॥ अधिके च ॥ ४-४१ ॥ परतः परतः पूर्वापूर्वाऽनन्तरा ॥ ४-४२ ॥ नारकाणां च द्वितीयादिषु ॥ ४-४३ ॥ दशवर्षसहस्राणि प्रथमायाम् ॥ ४-४४ ॥ भवनेषु च ॥ ४-४५ ॥ व्यन्तराणां च ॥ ४-४६ ॥ परा पल्योपमम् ॥ ४-४७ ॥ ज्योतिष्काणामधिकम् ॥ ४-४८ ॥ ग्रहाणामेकम् ॥ ४-४९ ॥ नक्षत्राणामर्धम् ॥ ४-५० ॥ तारकाणां चतुर्भागः ॥ ४-५१ ॥ जघन्या त्वष्टभागः ॥ ४-५२ ॥ चतुर्भागः शेषाणाम् ॥ ४-५३ ॥
• पांयमो मध्याय - अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ ५-१ ॥ द्रव्याणि जीवाश्च ॥ ५-२ ॥ नित्याऽवस्थितान्यरूपाणि च ॥ ५-३ ॥ रूपिणः पुद्गलाः ॥ ५-४ ॥ आऽऽकाशादेकद्रव्याणि ॥ ५-५ ॥ निष्क्रियाणि च ॥ ५-६ ॥ असंख्येयाः प्रदेशा धर्माधर्मयोः ॥ ५-७ ॥ जीवस्य च ।। ५-८॥ आकाशस्यानन्ताः ।। ५-९ ॥ संख्येयाऽसंख्येयाश्च पुद्गलानाम् ॥ ५-१० ॥ नाणोः ॥ ५-११ ॥ लोकाकाशेऽवगाहः ॥ ५-१२ ॥ धर्माधर्मयोः कृत्स्ने ॥ ५-१३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ।। ५-१४ ।। असंख्येयभागादिषु जीवानाम् ॥ ५-१५ ॥ प्रदेशसंहारविसर्गाभ्यां-प्रदीपवत् ।। ५-१६ ।। गति-स्थित्युपग्रहौ धर्माऽधर्मयोरुपकारः ।। ५-१७ ॥ आकाशस्यावगाहः ॥ ५-१८ ॥ शरीर-वाङ्-मनःप्राणापानाः पुद्गलानाम् ।।५-१९॥ सुख-दुःख-जीवित-मरणोपग्रहाश्च ।। ५-२० । परस्परोपग्रहो जीवानाम् ॥ ५-२१ ॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ ५-२२ ॥ स्पर्श-रस-गन्ध-वर्णवन्तः