________________
४६
શ્રીતત્ત્વાધિગમસૂત્ર
+ योथो मध्याय - देवाश्चतुर्निकायाः ।। ४-१ ॥ तृतीयः पीतलेश्यः ॥ ४-२ ।। दशाऽष्ट-पञ्च-द्वादश-विकल्पाः कल्पोपपन्न-पर्यन्ताः ॥ ४-३ ॥ इन्द्रसामानिक-त्रायस्त्रिंश-पारिषाद्या-5ऽत्मरक्ष-लोकपाला-ऽनीकप्रकीर्णका-ऽऽभियोग्य-किल्बिषिकाश्चैकशः ॥४-४॥ त्रायस्त्रिंशलोकपालवा व्यन्तर-ज्योतिष्काः ॥ ४-५ ।। पूर्वयोर्दीन्द्राः ।। ४-६ ॥ पीतान्तलेश्याः ॥ ४-७ ॥ कायप्रवीचारा आ ऐशानात् ।। ४-८ ॥ शेषाः स्पर्श-रूप-शब्द-मनःप्रवीचारा द्वयोर्द्वयोः ॥ ४-९ ॥ परे अप्रवीचाराः ॥ ४-१० ॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥ ४-११ ॥ व्यन्तराः किन्नर-किंपुरुष-महोरगगान्धर्व-यक्ष-राक्षस-भूतपिशाचाः ॥ ४-१२ ॥ ज्योतिष्काः सूर्याश्चन्द्रमसोग्रह-नक्षत्र-प्रकीर्णतारकाश्च ।। ४-१३ ॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ ४-१४ ॥ तत्कृतः कालविभागः ।। ४-१५ ॥ बहिरवस्थिताः ॥ ४१६ ॥ वैमानिकाः ॥ ४-१७ ॥ कल्पोपपन्नाः कल्पातीताश्च ।। ४-१८ ।। उपर्युपरि ॥ ४-१९ ॥ सौधर्मेशान-सनत्कुमार-माहेन्द्र-ब्रह्मलोकलान्तक-महाशुक्र-सहस्रारेष्वानत-प्राणतयोरारणाच्युतर्योर्नवसु ग्रैवेयकेषु विजय-वैजयन्त-जयन्ता-ऽपराजितेषु सर्वार्थसिद्धे च ॥ ४-२० ॥ स्थिति-प्रभाव-सुख-द्युति-लेश्याविशुद्धीन्द्रिया-ऽवधि-विषयतोऽधिकाः ॥ ४-२१ ॥ गति-शरीर-परिग्रहाभिमानतो हीनाः ॥ ४-२२ ॥ पीतपद्म-शुक्ललेश्या द्वि-त्रि-शेषेषु ।। ४-२३ ।। प्राग् ग्रैवेयकेभ्य: कल्पाः ॥४-२४ ॥ ब्रह्मलोकालया लोकान्तिकाः ।। ४-२५ ॥ सारस्वताऽऽदित्यवह्नयरुण-गर्दतोय-तुषिता-ऽव्याबाध-मरुतोऽरिष्टाश्च ॥ ४-२६ ॥ विजयादिषु द्विचरमाः ॥ ४-२७ ॥ औपपातिक-मनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ ४-२८ ॥ स्थितिः ॥ ४-२९ ॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ।। ४-३० ॥ शेषाणां पादोने ॥ ४-३१ ॥ असुरेन्द्रयोः सागरोपममधिकं च ॥ ४-३२ ॥ सौधर्मादिषु यथाक्रमम् ॥ ४-३३ ।।