________________
શ્રીતત્ત્વાથધિગમસૂત્ર तैजसात् ॥ २-३९ ॥ अनन्तगुणे परे ॥ २-४० ॥ अप्रतिघाते ॥२-४१ ।। अनादिसंबन्धे च ॥ २-४२ ।। सर्वस्य ।। २-४३ ॥ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्यः ॥ २-४४ ॥ निरुपभोगमन्त्यम् ।। २-४५ ॥ गर्भसंमूर्छनजमाद्यम् ॥ २-४६ ॥ वैक्रियमौपपातिकम् ॥ २-४७ । लब्धिप्रत्ययं च ॥ २-४८ ॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ २-४९ ॥ नारक-संमूच्छिनो नपुंसकानि ।। २-५० ॥ न देवाः ॥ २-५१ ॥ औपपातिक-चरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषोऽनपवर्त्यायुषः ॥ २-५२ ।।
+ श्रीले मध्याय - रत्न-शर्करा-वालुका-पङ्क-धूम-तमो-महातमःप्रभा भूमयो । घनाम्बु-वाता-55काशप्रतिष्ठाः सप्ताऽधोऽधः पृथुतराः ।। ३-१ ॥ तासु नरकाः ।। ३-२ ॥ नित्याशुभतरलेश्या-परिणाम-देह-वेदना-विक्रियाः ।। ३-३ ॥ परस्परोदीरितदुःखाः ॥ ३-४ ॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥ ३-५ ॥ तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशतित्रयस्त्रिंशत्-सागरोपमाः सत्त्वानां परा स्थितिः ॥ ३-६ ॥ जम्बूद्वीपलवणादयः शुभनामानो द्वीप-समुद्राः ॥ ३-७ ॥ द्विर्द्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ३-८ ॥ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ३-९ ॥ भरत-हैमवत-हरिविदेह-रम्यक्-हैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ ३-१० ॥ तद्विभाजिनः पूर्वपरायता हिमवन्महाहिमवन्निषधनील-रुक्मि-शिखरिणो वर्षधरपर्वताः ।। ३-११ ॥ द्विर्धातकीखण्डे ॥ ३-१२ ।। पुष्करार्धे च ॥ ३-१३ ॥ प्राग् मानुषोत्तरान्मनुष्याः ॥ ३-१४ ॥ आर्या म्लेच्छाश्च ॥ ३-१५ ॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३-१६ ॥ नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥ ३-१७ ॥ तिर्यग्योनीनां च ॥ ३-१८ ॥