________________
४६१
શ્રીતત્ત્વાથિિધગમસૂત્ર
.जीले मध्याय . औपशमिक-क्षायिकौ भावौ मिश्रश्च जीवस्य। स्वतत्त्वमौदयिकपारिणामिकौ च ।। २-१ ॥ द्वि-नवा-ऽष्टादशैकविंशति-त्रिभेदा यथाक्रमम् ॥ २-२॥ सम्यक्त्व-चारित्रे ।। २-३ ॥ ज्ञान-दर्शन-दान-लाभभोगोपभोगवीर्याणि च ॥ २-४ ॥ ज्ञाना-ज्ञान-दर्शन-दानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्व-चारित्र-संयमासंयमाश्च ॥ २-५ ॥ गति-कषाय-लिङ्ग-मिथ्यादर्शना-ऽज्ञाना-ऽसंयता-ऽसिद्धत्व-लेश्याश्चतुश्चतुस्त्र्येकैकैकैक-षड्भेदाः ॥ २-६ ॥ जीव-भव्या-भव्यत्वादीनि च ।। २-७ ॥ उपयोगो लक्षणम् ।। २-८ ॥ स द्विविधोऽष्टचतुर्भेदः ॥ २९॥ संसारिणो मुक्ताश्च ।। २-१० ॥ समनस्काऽमनस्काः ॥ २-११ ॥ संसारिणस्त्रस-स्थावराः ।। २-१२ ।। पृथ्व्यब्वनस्पतयः स्थावराः ।। २१३ ॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः ।। २-१४ ।। पञ्चेन्द्रियाणि ।। २१५ ॥ द्विविधानि ।। २-१६ । निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ २-१७ ॥ लब्ब्युपयोगौ भावेन्द्रियम् ॥ २-१८ ।। उपयोगः स्पर्शादिषु ॥ २-१९ ॥ स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणि ॥ २-२० ॥ स्पर्श-रस-गन्ध-वर्णशब्दास्तेषामर्थाः ॥ २-२१ ॥ श्रुतमनिन्द्रियस्य ॥ २-२२ ॥ वाय्वन्तानामेकम् ।। २-२३॥ कृमि-पिपीलिका-भ्रमर-मनुष्यादीनामेकैकवृद्धानि ॥ २-२४ ॥ संज्ञिनः समनस्काः ॥ २-२५ ॥ विग्रहगतौ कर्मयोगः ॥ २-२६ ॥ अनुश्रेणि गतिः ॥ २-२७ ॥ अविग्रहा जीवस्य ॥ २-२८ ॥ विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ।। २-२९ ।। एकसमयोऽविग्रहः ॥ २-३० ॥ एकं द्वौ वाऽनाहारकः ॥ २-३१ ।। संमूर्छन-गर्भोपपाताज्जन्म ॥ २-३२ ॥ सचित्त-शीत-संवृताः सेतरा मिश्राश्चैकशः तद्योनयः ॥ २-३३ ॥ जरायवण्डपोतजानां गर्भः ॥ २-३४ ॥ नारक-देवानामुपपातः ॥ २-३५ ॥ शेषाणां संमूर्छनम् ॥ २-३६ ॥ औदारिक-वैक्रिय-ऽऽहारक-तैजस-कार्मणानि शरीराणि ॥ २-३७ ।। परं परं सूक्ष्मम् ॥ २-३८ ॥ प्रदेशतोऽसंख्येयगुणं प्राक्