________________
४६०
શ્રીતત્ત્વાધિગમસૂત્ર
+ प्रथम मध्याय - सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः ॥ १-१॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ १-२ ॥ तनिसर्गादधिगमाद् वा ॥ १-३ ।। जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ १-४ ॥ नाम-स्थापना-द्रव्यभावतस्तन्न्यासः ॥ १-५ ॥ प्रमाणनयैरधिगमः ॥ १-६ ॥ निर्देशस्वामित्व-साधनाधिकरण-स्थिति-विधानतः ॥ १-७ ॥ सत्-संख्याक्षेत्र-स्पर्शन-कालाऽन्तर-भावाऽल्पबहुत्वैश्च ॥ १-८॥ मति-श्रुताऽवधि-मनःपर्याय-केवलानि ज्ञानम् ।। १-९॥ तत्प्रमाणे ॥ १-१० ॥ आद्ये परोक्षम् ॥ १-११ ॥ प्रत्यक्षमन्यद् ॥ १-१२ ॥ मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम् ॥ १-१३ ॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १-१४ ॥ अवग्रहेहापायधारणाः ॥ १-१५ ॥ बहु-बहुविध-क्षिप्राऽनिश्रिता-ऽसंदिग्ध-ध्रुवाणां सेतराणाम् ॥ १-१६ ।। अर्थस्य ॥ १-१७।। व्यञ्जनस्यावग्रहः ॥ १-१८ ॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १-१९ ॥ श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम् ।। १-२० ॥ द्विविधोऽवधिः ॥ १-२१ ॥ भवप्रत्ययो नारकदेवानाम् ॥ १-२२ ॥ यथोक्तनिमित्त: षड्विकल्पः शेषाणाम् ॥ १-२३ ॥ ऋजु-विपुलमती मनःपर्यायः ॥ १-२४ ॥ विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ १-२५ ॥ विशुद्धि-क्षेत्र-स्वामिविषयेभ्योऽवधिमनःपर्याययोः ॥ १-२६ ॥ मतिश्रुतयोनिबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥ १-२७ ॥ रूपिष्ववधेः ॥ १-२८ ॥ तदनन्तभागे मनःपर्यायस्य ॥ १-२९ ॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥ १-३० ॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥ १-३१ ।। मति-श्रुतावधयो विपर्ययश्च ॥ १-३२ ॥ सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवत् ॥ १-३३ ।। नैगमसंग्रहव्यवहारर्जुसूत्रशब्दा नयाः ।। १-३४ ॥ आद्यशब्दौ द्वि-त्रि-भेदौ ॥ १-३५ ।।