________________
४६८
શ્રીતત્ત્વાથિિધગમસૂત્ર रवधिकेवलानां निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला-स्त्यानर्द्धिवेदनीयानि च ॥ ८-८ ॥ सदसवेद्ये ॥ ८-९ ॥ दर्शन-चारित्रमोहनीयकषाय-नोकषायवेदनीयाख्यास्त्रि-द्वि-षोडश-नवभेदाः सम्यक्त्वमिथ्यात्व-तदुभयानि, कषाय-नोकषायौ, अनन्तानुबन्ध्य-प्रत्याख्यानप्रत्याख्यानावरण-संज्वलन-विकल्पाश्चैकशः क्रोध-मान-माया-लोभाः हास्यरत्यरति-शोक-भय-जुगुप्साः स्त्री-पुं-नपुंसकवेदाः ॥ ८-१० ॥ नारक-तैर्यग्योन-मानुष-दैवानि ॥ ८-११ ॥ गति-जाति-शरीराऽङ्गोपाङ्ग-निर्माण-बन्धन-संघात-संस्थान-संहनन-स्पर्श-रस-गन्धवर्णा-ऽऽनुपूर्व्यगुरुलघूपघात-पराघाता-ऽऽतपोद्योतोच्छास-विहायोगतयः प्रत्येकशरीर-त्रस-सुभग-सुस्वर-शुभ-सूक्ष्म-पर्याप्त-स्थिरा-ऽऽदेययशांसि सेतराणि तीर्थकृत्त्वं च ॥ ८-१२ ॥ उच्चैर्नीचैश्च ।। ८-१३ ॥ दानादीनाम् ।। ८-१४ ।। आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ ८-१५ ॥ सप्ततिर्मोहनीयस्य ॥ ८-१६ ॥ नामगोत्रयोविंशतिः ॥ ८-१७ ॥ त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य ॥ ८-१८ ॥ अपरा द्वादश मुहूर्ता वेदनीयस्य ।। ८-१९ ॥ नामगोत्रयोरष्टौ ॥ ८-२० ॥ शेषाणामन्तर्मुहूर्तम् ॥ ८-२१ ॥ विपाकोऽनुभावः ॥ ८-२२ ॥ स यथानाम ॥ ८-२३ ॥ ततश्च निर्जरा ।। ८-२४ ॥ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः ॥ ८-२५ ॥ सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेदशुभायुर्नाम-गोत्राणि पुण्यम् ॥ ८-२६ ॥
+ नवमो मध्याय - आस्रवनिरोधः संवरः ॥ ९-१॥ स गुप्ति-समिति-धर्माऽनुप्रेक्षापरीषहजय-चारित्रैः ॥ ९-२ ॥ तपसा निर्जरा च ॥ ९-३ ॥ सम्यग् योगनिग्रहो गुप्तिः ॥ ९-४ ॥ ईर्या-भाषैषणा-ऽऽदाननिक्षेपोत्सर्गाः समितयः ।। ९-५ ॥ उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयम