________________
ભાષ્યત્રયમ્
दव्य-हता विकृतिविकृति-गतं पुनस्तेन तद्धतं द्रव्यम् । उद्धृते तत्तस्मिंश्चोत्कृष्ट-दव्यमिदं चान्ये ॥३७॥ तिल-शष्कुली वरसोलादि राजादनाम्रादि द्राक्षा-पानादि । डोली-तैलादिकानीति सरसोत्तम-द्रव्याणि लेप-कृतानि ॥३८॥ विकृति-गतानि संसृष्टान्युत्तम-दव्याणि च निर्विकृतिके । कारण-जातं मुक्त्वा कल्पन्ते न भोक्तुं यदुक्तम् ॥३९॥ विकृति विगति-भीतो विकृति-गतं यस्तु भुङ्क्ते साधुः । विकृतिविकृति-स्व-भावा विकृतिर्विगतिं बलान्नयति ॥४०॥ कौन्तिकं माक्षिकं भ्रामरं मधु त्रिधा काष्ठं पैष्टं मद्यं द्विधा जलचर-स्थलचर-खगमांसं त्रिधा घृतवन्म्रक्षणं चतुर्धाऽभक्ष्याः ॥४१॥ मनोवचन-काया- मनो-वचने मनस्तनूवचस्तनू त्रियोगी सप्त-सप्तकाः । कारणं कारणमनुमति ढेि-त्रियोगी त्रि-कालेन सप्त-चत्वारिंशदधिकं भङ्ग-शतम् ॥४२॥ एतच्चोक्त-काले स्वयं च मनो-वचस्तनुभिः पालनीयम् । ज्ञात्रज्ञातृ-पार्वे इति भङ्ग-चतुष्के त्रिष्वनुज्ञा ॥४३॥ स्पृष्टं पालितं शोधितं तीरितं कीर्तितमाराधितं षट्-शुद्धि-युक्तं । प्रत्याख्यानं स्पृष्टं विधिनोचित-काले यत्प्राप्तम् ॥४४॥ पालितं पुनः पुनः स्मृतं, शोधितं गुरु दत्त-शेष-भोजनतः । तीरितं समधिक-कालात्, कीर्तितं भोजन-समय-स्मरणात् ॥४५॥ इति प्रतिचरितमाराधितं त्वथवा षट् शुद्धयः-श्रद्धा । ज्ञानं विनयोऽनुभाषणमनुपालन-भावशुद्धयः इति ॥४६॥ प्रत्याख्यानस्य फलमत्र पर-लोके च भवति द्वि-विधं तु । इहलोके धम्मिलादयो दामन्नकादयः पर-लोके ॥४७॥ प्रत्याख्यानमिदमासेव्य भावेन जिनवरोद्दिष्टम् । प्राप्ता अनन्ता जीवाः शाश्वत-सुखमनाबाधम् ॥४८॥x
x प्राकृतानुशासनसिद्ध-विभक्ति-लोपादिभिः संदिग्ध-स्थलेष्वन्यथापि संभवति संस्कृतच्छाया, संशोध्या धीधनैः ।