________________
૬૫
પ્રત્યાખ્યાન ભાષ્ય पौरुषी-सार्धा-पार्धानि, द्वि-भक्तं निर्विकृतिः पौरिष्याद्यानि समानि । अगुष्ठ-मुष्टि-ग्रन्थि-सचित्त-दव्याद्याभिग्रहिकम् ॥२३॥ विस्मरणमनाभोगः सहसा-ऽऽकार: स्वयं मुख-प्रवेशः । प्रच्छन्न-कालः मेघादिना दिग्-विपर्यासे दिग्मोहः ॥२४॥ साधु-वचनमुद्धाटा पौरुषी तनु-स्वस्थता समाधिरिति । संघा-ऽऽरि-कार्य महत्तरो गृहि-बन्धादि सागारिकः ॥२५॥ आकुञ्चनमङ्गानां गुरु-प्राघूर्णक-साध्वोर्गुर्वभ्युत्थानम् । परिष्ठापनिकं विधि-गृहीते यतीनां प्रावरणे कटि-पटः ॥२६॥ खरण्टित-लूहित-दादिर्लेपः संसृष्टः "डुच्च (शाक)-मण्डकादिः । उत्क्षिप्तः पिण्ड-विकृतीनां प्रक्षितमङ्गुलीभिर्मनाक् ॥२७॥ लेपमायामादिरितरत् सौवीरमच्छमुष्ण-जलम् । धावनं बहुलं स-सिक्थमुत्स्वेदिममितरत् सिक्थं विना ॥२८॥ पञ्च-चतुः-चतुः-चतु-ढ़ेि-र्द्विविधाः षड् भक्ष्या
दुग्धा-ऽऽदि-विकृतय एक-विंशतिः । त्रि-द्वि-त्रि-चतुर्विधा अभक्ष्याश्चतस्रो मध्वादि-विकृतयो द्वादश ॥२९॥ क्षीर-घृत-दधि-तैल-गुडपक्वान्नानि षड् भक्ष्य-विकृतयः । गो-महिष्युष्ट्रयजैडकानां पञ्च दुग्धान्यथ चत्वारि ॥३०॥ घृत-दधिन्युष्ट्री विना तिल-सर्षपा-ऽतसी-लट्ट-तैलानि चत्वारि । द्रव-गुड-पिण्ड-गुडौ द्वौ, पक्वान्नं तैल-घृत-तलितम् ॥३१॥ पयः शाटी-क्षीर-पेया-ऽवलेहि-दुग्धाट्यः दुग्ध-विकृति-गतानि । दाक्षा-बह्वल्प-तण्डुल-तच्चूर्णा-ऽऽम्ल-सहिते-दुग्धस्य ॥३२॥ निर्भञ्जन विस्पन्दनं पक्वौषधि-तरिका किट्टिः पक्व-घृतम् । दधि करम्ब-शिखरिणी-स-लवण-दधि-घोल-घोल-वटकानि ॥३३॥ तिल-कुट्टिनिर्भञ्जनं पक्व-तैलं पक्वौषध-तरिका-तैल-मलिका । शर्करा गुडपानीयं पाकः खण्डाऽर्ध-क्वथितेक्षु-रसः ॥३४॥ पूरित-तापका-ऽपूपाद्वितीयापूपस्तत्स्नेह-तुर्य-धानादिः । गुड-धानिका जल-लपनश्रीः पञ्चमः पोत-कृत-पूपकः ॥३५॥ दुग्धं दधि चत्वार्यगुलानि दव-गुड-घृत-तैलान्येकं भक्तोपरि । पिण्ड-गुड-म्रक्षणयोरा -ऽऽमलक-मानं च संसृष्टम् ॥३६॥