________________
६४
ભાષ્યત્રયમ્ इतश्चैव क्षपणा-ऽऽचाम्ल-निर्विकृत्यादिषु प्रासुकं चैव जलं तु । श्राद्धा अपि पिबन्ति तथा प्रत्याख्यान्ति त्रिविधा-ऽऽहारम् ॥११॥ चतुर्विधा-ऽऽहारं तु नमस्कार-सहितं
रात्रिकमपि मुनीना शेषाणि त्रिविध-चतुर्विधाहाराणि । नैशिक-पौरुषी-पुरिमाधंकाशनादीनि श्राद्धानां द्वित्रिचतुबिधाहाराणि ॥१२॥ क्षुधाप्रशमक्षम एकाकी, आहारे वैति ददाति वा स्वादम् । क्षुधितो वा क्षिपति कोष्ठे यत्पङ्कोपमं स आहारः ॥१३॥ अशने मुद्गौदन-सक्तु-मण्डक-पयः-खाद्य-रब्बा-कन्दादयः । पाने काञ्जिक-यव-करीर-कर्कट्योदक-सुरा-जलानि ॥१४॥ खादिमे-भक्तोषं फलादि स्वादिमे शुष्ठी-जीरका-ऽजमादि । मधु-गुड-ताम्बूलादि अनाहारे मोक-निम्बादि ॥१५॥ द्वौ नमस्कार-सहिते, षट् पौसष्यां, सप्त पुरिमार्ध एका-ऽशनेऽष्टौ । सप्तैकस्थान आचाम्लेऽष्टौ पञ्च चतुर्थे षट् पानके ॥१६॥ चत्वारश्चरिमे चत्वारोऽभिग्रहे पञ्च प्रावरणे नवा-ऽष्टौ निर्विकृतौ । आकारं "उक्खित्तविवेगेणं" मुक्त्वा द्रव-विकृति-नियमेऽष्टौ ॥१७॥ अन्नत्थ० सहसा० द्वे नमस्कार सहिते अन्न०
सहसा० पच्छन्न० दिसा० च साहु० सव्व० । पौरुष्यां षट् सार्ध-पौरुष्यां पुरिमा-ऽर्धे सप्त स-महत्तरा० ॥१८॥ अन्नत्थ० सहसा० सागारि० च आउण्टण० गुरु-अब्भु० च
पारिखा० महत्तरा० सव्व-समाहि० । एक-द्वयशनयोरष्टौ तु सप्तैकस्थाने आउण्टण० विणा ॥१९॥ अन्नत्थ० सहसा० लेवा० गिहत्थ उक्खित्त० पडुच्च० पारिठ्ठा० महत्तरा० सव्व-समाहि० । विकृतौ निर्विकृतौ नव पडुच्च० विनाऽचाम्लेष्टौ ॥२०॥ अन्नत्थ० सहसा० पारिठा० महत्तरा० सव्व-समाहि० पञ्च क्षपणे षट् पाने "लेवेण वा" आदि । चत्वारश्चरिमाङ्गुष्ठ-सहिताद्यभिग्रहेषु अन्नत्थ०
सहस्रो० महत्तरा० सव्व-समाहि० ॥२१॥ दुग्ध-मधु-मद्य-तैलानि चतस्त्रो दव-विकृतयश्चतस्रः पिण्डदवाः । घृत-गुड-दधि-पिशितानि म्रक्षण-पक्वान्ने द्वे पिण्डे ॥२२॥