________________
ગુરુ-વંદન-ભાષ્ય ईर्या-चैत्य-वंन्दन-मुख-वस्त्रिका-वन्दनक-चरिम-वन्दनका-ऽऽलोचनम् । वन्दनक-क्षमापना-चतुश्च्छोभ-दिवसोत्सर्गो द्वि-स्वाध्यायः ॥३९॥ एनं कृति-कर्म-विधिं योक्तारश्चरण-करणा-ऽऽयुक्ताः । साधवः क्षपयन्ति कर्माऽनेक-भव-संचितमनन्तम् ॥४०॥ अल्प-मति-भव्य-बोधा-ऽर्थं भाषितं विपरीतं च यदत्र मया । तच्छोधयन्तु गीतार्था अनभिनिवेषिणोऽमत्सरिणः ॥४१॥
-
-
-
-
-
-
-
-
३. श्री-प्रत्याख्यान-भाष्यस्य. दश प्रत्याख्यानानि चत्वारो विधय आहारा द्वा-विंशत्याकारा अद्विरुक्ता । दश विकृतयस्त्रिंशविकृति-गतानि द्विधा भङ्गाः षट्छुद्धयः फलम् ॥१॥ अनागतमतिक्रान्तं कोटि-सहितं नियन्त्रितमनाकारम् । सागारं निरवशेषं परिमाण-कृतं संकेतिकमद्धा ॥२॥ नमस्कार-सहितं पौरपी पुरिमाकाशनकस्थानानि च । आचाम्लमभक्तार्थं चरिमं चाऽभिग्रहं विकृतिः ॥३॥ "ऊग्गए सूरे" च नमस्कार-सहिते पौस्त्री प्रत्याख्याने "उग्गए सूरे" । "सूरे उग्गए" पुरिमार्धेऽभक्तार्थे "पच्चक्खाइ" इति ॥४॥ भणति गुरु शिष्यः पुनः “पच्चक्खामि" इत्येवं "वोसिरइ । उपयोगोऽत्र प्रमाणं न प्रमाणं व्यञ्जन-स्खलना ॥५॥ प्रथमे स्थाने त्रयोदश द्वितीये त्रीणि तु त्रिकं च तृतीये । पानकस्य चतुर्थे देशाऽवकाशादीनि पञ्चमे ॥६॥ नमस्कार-सहितं पौस्यी सार्धपौस्त्री
___पुरिमा-ऽर्थोऽपा?गुष्ठसहिताद्यष्टकं त्रयोदश । निर्विकृति विकृत्याचाम्लत्रिकं त्रिक द्वयेकाशनैक-स्थानादेः ॥७॥ प्रथमे चतुर्थादीनि त्रयोदश द्वितीये तृतीये पानस्य । देशावकाशिकं तुर्ये, चरिमे यथा-संभवं ज्ञेयम् ॥८॥ तथा मध्य-प्रत्याख्यानेषु न पृथक् “सूरे उग्गए" इत्यादि “वोसिरह" । करण-विधिस्तु न भण्यते यथा “आवसियाए" द्वितीय-वन्दनके ॥९॥ तथा त्रि-विधा-ऽऽहार-प्रत्याख्याने भण्यन्ते पानकस्याऽऽकारः ।' द्वि-विधा-ऽऽहारेऽचित्त-भोजिनस्तथा च प्रासुक-जले ॥१०॥