________________
૬૨
ભાષ્યત્રયમ્
वेदिका-बद्धं भजन्तं भयं गौरवं मित्रं कारणं स्तैन्यम् । प्रत्यनिकं स्टं तजितं शठं हीलितं विपरिकुञ्चितम् ॥२४॥ दृष्टा-दृष्टं शृङ्गं करं तन्मोचनमाश्लिष्टा-ऽनाश्लिष्टम् । ऊनमुत्तर-चूलिकं मूकं ढड्ढरं चुडलिकम् च ॥२५॥ द्वा-त्रिंशद्दोष-परिशुद्धं कृति-कर्म यः प्रयुनक्ति गुरूणाम् । स प्राप्नोति निर्वाणमचिरेण विमान-वासं वा ॥२६॥ अत्र षट् च गुणा-विनय उपचारो मानादिभङ्गो गुरु-पूजा । तीर्थ-कराणां चाज्ञा श्रुत-धर्मा-ऽऽराघनाऽक्रिया ॥२७॥ गुरु-गुण-युक्तं तु गुरुं स्थापयेदथवा तत्रा-ऽक्षादीन् । अथवा ज्ञाना-ऽऽदि-त्रिकं स्थापयेत् साक्षात्-गुर्वभावे ॥२८॥ अक्षे वराटके वा काष्ठे पुस्तके च चित्र-कर्मणि च । सद्भावाऽसद्भावा गुरु स्थापनेत्वरा यावत्कथिका ॥२९॥ गुरु-विरहे स्थापना गुस्पदेशोपदर्शना-ऽर्थं च । जिन-विरहे जिन-बिम्ब-सेवना-ऽऽमन्त्रणं स-फलम् ॥३०॥ चतुर्दिक्षु गुर्ववग्रहोऽत्राघ्युष्ट-त्रयोदश-कराः स्व-पर-पक्षयोः । अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टम् ॥३१॥ पञ्च-त्रि-द्वादश-द्वि-त्रि-चत्वारि षट्-स्थान-पदान्येकोन-त्रिंशत् । एकोनत्रिंशच्छेषाणि "आवसियाए" इत्यादीनि सर्वपदान्यष्टपञ्चाशत् ॥३२॥ इच्छा चानुज्ञापनाऽव्याबाधा च यात्रा यापना च । अपराधक्षमापनाऽपि च वन्दन-दातुः षट्-स्थानानि ॥३३॥ "छन्देण" "अणुजाणामि" "तहत्ति" "तुभंपि वट्टए" "एवं" । "अहमवि खमेमि तुमं" वचनानि वन्दनार्हस्य ॥३४॥ पुरतः पक्षासन्ने गन्ता तिष्ठमानो निषीदना-ऽऽचमने । आलोचना-प्रतिश्रवणे पूर्वा-ऽऽलापने चा-ऽऽलोचे ॥३५॥ तथोपदर्श-निमन्त्रण-खद्धादाऽदने तथाऽप्रतिश्रवणे । खद्धति च तत्र-गत किं त्वं तज्जात नो-सुमनाः ॥३६॥ नो स्मरसि ? कथां छेत्ता परिषदं भेत्ताऽनुत्थिताया कथयेत् । संस्तारक-पाद संघट्टन-स्थाने उच्च-समासने चापि ॥३७॥ ईर्या-कु-स्वप्नोत्सर्ग-चैत्य-वन्दन-मुख-वस्त्रिका-वन्दनका-ऽऽलोचनम् । वन्दनक-क्षमापना-वन्दनक-संवर-चतुश्च्छोभ-द्वि-स्वाध्यायः ॥३८॥