________________
૬૧
ગુરુ-વંદન-ભાષ્ય पदान्यष्ट-पञ्चाशत् षट्-स्थानानि षट्-गुरुवचनान्याशातनास्त्रयस्त्रिंशत् । द्वौ विधी द्वा-विंशति-द्वारैश्चतुः शतानि द्वि-नवतिः स्थानानि ॥९॥ वन्दनकं चिति-कर्म कृति-कर्म पूजा-कर्म विनय-कर्म । गुरु-वन्दन-पञ्चनामानि दव्यतो भावतो द्विधौघेन (द्विधोदाहरणानि) ॥१०॥ शीतलकः क्षुल्लको वीर-कृष्णौ सेवकद्वयः पालकः शाम्बः । पञ्चैते दृष्टान्ताः कृति-कर्मे दव्य-भावाभ्याम् ॥११।। पार्श्व-स्थोऽवसन्नः कु-शीलः संसक्तो यथा-छन्दः । द्वि-द्वि-त्रि-द्वयनेक-विधा अवन्दनीया जिन-मते ॥१२॥ आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रालिकः । कृति-कर्म निर्जरा-ऽर्थं कर्त्तव्यमेतेषां पञ्चानाम् ॥१३॥ माता पिता ज्येष्ठ-भ्राताऽवमा अपि-तथैव सर्व-रालिकः । कृति-कर्म न कारयेच्चत्त्वारः श्रमणा-ऽऽदयः कुर्वन्ति पुनः ॥१४॥ व्याक्षिप्तं पराङ्मुखं च प्रमत्तं मा कदाचिद्वन्देत । आहारं निहारं कुर्वन्तं कर्तु-कामं च ॥१५॥ प्रशान्तमासन-स्थं चोपशान्तमुपस्थितम् । अनुज्ञाप्य मेधावी कृति-कर्म प्रयुनक्ति ॥१६॥ प्रतिक्रमणे स्वाध्याये कायोत्सर्गे-ऽपराधे प्राघूर्णके । आलोचने संवरणे उत्तमा-ऽर्थे च वन्दनकम् ॥१७॥ द्वयवनतं यथा-जातमावर्ता द्वादश चतुः- शिरस्त्रि-गुप्तम् । द्वि-प्रवेशमेक-निष्क्रमणं पञ्चविंशत्यावश्यकानि कृति-कर्मे ॥१८॥ कृति-कर्माऽपि कुर्वन्न भवति कृति-कर्म-निर्जरा-भागी । पञ्च-विंशतीनामन्यतरं साधुः स्थानं विराधयन् ॥१९॥ दृष्टि-प्रतिलेखनैका षडुर्ध्व-प्रस्फोटास्त्रिक-त्रिकाऽन्तरिताः । अक्षोटाः प्रमार्जना नवनवमुख-वस्त्रिकायाः पञ्चविंशतिः ॥२०॥ प्रदक्षिणया त्रिकं त्रिकं वामेतर-बाहु-शीर्ष-मुख-हृदयेषु । अंसोर्ध्वा-ऽधः-पृष्ठे चतस्त्रः षट् पादयोर्देहस्य पञ्च विंशतिः ॥२१॥ आवश्यकेषु यथा यथा करोति प्रयत्लम-हीना-ऽतिरिक्तम् । त्रि-विध-करणोपयुक्तस्तथा तथा तस्य निर्जरा भवति ॥२२॥ दोषा:-अनादृतं स्तब्धं प्रविद्धं परिपिण्डितं च टोल-गतिः । अङ्कुशं कच्छप-रिङ्गितं मत्स्योवृत्तं मनः-प्रदुष्टम् ॥२३॥