________________
६०
ભાણત્રયમ્
ईर्योत्सर्ग-प्रमाणं पञ्चविंशतिरुच्छ्वासा अष्ट शेषेषु । गभीरं मधुर-शब्दं महाऽर्थ-युक्तं भवति स्तोत्रम् (स्तवम्) ॥५८॥ प्रतिक्रमणे चैत्ये जेमने चरिमे प्रतिक्रमणे शयने प्रतिबोधे । चैत्य-वन्दनमिति यतीनां सप्त तु वेला अहोरात्रे ॥५९॥ प्रतिक्रामतो गृहिणोऽपि खलु सप्त वेलं पञ्च-वेलमितरस्य । पूजासु त्रि-संध्यासु च भवति त्रि-वेलं जघन्येन ॥६०॥ ताम्बूल-पान-भोजनोपानन् मैथुन-शयन-निष्ठीवनम् । मूत्रमुच्चारं द्यूतं वर्जयेज्जिन-नाथजगत्याम् ॥६१॥ ईरिया-नमस्कार-नमोत्थुण-मरिहंत-स्तुति-लोगस्स-सव्व-स्तुति-पुक्खरस्तुति-सिद्धाणं-वेयावच्च-स्तुति-नमुत्थुणं-जावंति-स्तव-जयवीअराय ॥६२॥ सर्वोपाधि-विशुद्धमेवं यो वन्दते सदा देवम् । देवेन्द्रवृन्दमहितं परम-पदं प्राप्नोति लघु सः ॥६३॥
२. श्री-गुरु-वन्दन-भाष्यस्यगुरु वन्दनमथ त्रिविधं तफिट्टा-छोभ-द्वादशा-ऽऽवर्त्तम् । शिरोनमनादिषु प्रथमं पूर्ण-क्षमा-श्रमण-द्विके द्वितीयम् ॥१॥ यथा दूतो राजानं नत्वा कार्यं निवेद्य पश्चात् । विसर्जितोऽपि वन्दित्वा गच्छत्येवमेवात्र द्विकम् ॥२॥ आचारस्य तु मूलं विनयः स गुणवतश्च प्रतिपत्तिः । सा च विधि-वन्दनतो विधिश्चासौ द्वादशा-ऽऽवर्ते ॥३॥ तृतीयं तु छन्दनक-द्विके तत्र मिथ आदिमं सकल-संघस्य । द्वितीयं तु दर्शनिनश्च पद-स्थितानां च तृतीयं तु ॥४॥ वन्दन-चिति-कृति-कर्म-पूजा-कर्म च विनय-कर्म च । कर्त्तव्यं कस्य वा केन वाऽपि कदा वा कति-कृत्वः ॥५॥ कत्यवनतं कति-शिरः कतिभिर्वाऽऽवश्यकैः परिशुद्धम् । कति-दोष-विप्रमुक्तं कृति-कर्म कस्मात् क्रियते वा ? ॥६॥ पञ्च-नामानि पञ्चोदाहरणान्ययोग्य-पञ्चकं योग्यपञ्चकं चत्वारोऽदातारः । चत्वारो दातार:- पञ्च-निषेधाश्चत्वारोऽनिषेधा अष्ट कारणानि ॥७॥ आवश्यक-मुखा-ऽनन्तक-तनु-प्रेक्षा-पञ्च-विंशतिर्दोषा द्वात्रिंशत् । षड्-गुणा गुरु-स्थापना द्वयवग्रहो द्वि-षड्-विंशत्यक्षर-गुरु-पञ्चविंशतिः ॥८॥