________________
૫૯
ચૈત્યવંદન ભાષ્ય प्रथमा-ऽधिकारे वन्दे भाव-जिनान् द्वितीये द्रव्य-जिनान् । एक-चैत्य-स्थापना-जिनान् तृतीये चतुर्थे नाम-जिनान् ॥४३॥ त्रि-भुवन-स्थापना-जिनान् पुनः पञ्चमे विहरतो जिनान् षष्ठे । सप्तमे श्रुत-ज्ञानमष्टमे सर्व-सिद्ध-स्तुतिः ॥४४॥ तीर्था-ऽधिप-वीर-स्तुतिनवमे दशमे चोज्जयन्त-स्तुतिः । अष्टापदादिरेकादशे सुदृष्टि-सुर-स्मरणं चरिमे ॥४५॥ नवाधिकारा अत्र-ललित-विस्तरा-वृत्त्याद्यनुसारेण । त्रयः श्रुतपरम्परया द्वितीयो दशम एकादशः ॥४६॥ आवश्यकचूण्यां यद्भणितं "शेषा यथेच्छया" । तेनोज्जयन्तादयोऽप्यधिकाराः श्रुतमता श्चैव ॥४७॥ द्वितीयः श्रुतस्तवादावर्थतो वर्णितस्तत्र चैव । शक्र-स्तवान्ते पठितो द्रव्याईदवसरे प्रकटार्थः ॥४८॥ अ-शठाचीर्णमनवयं गीतार्था न वारयन्ति मध्यस्थाः । आचरणाऽपि खलु आज्ञेति-वचनत: सुबहु मन्यन्ते ॥४९॥ चत्त्वारो वन्दनीया जिन-मुनि-श्रुत-सिद्धाः अत्र सुराश्च स्मरणीयाः । चतुर्धा जिनाः नाम-स्थापना-दव्य-भाव-जिन-भेदेन ॥५०॥ नाम-जिना जिन नामानि, स्थापना-जिनाः पुनर्जिनेन्द्र-प्रतिमाः । द्रव्य-जिना जिनजीवाः, भाव-जिनाः समवसरण-स्थाः ॥५१॥ अधिकृत-जिनस्य प्रथमा स्तुतिद्वितीया सर्वेषां तृतीया ज्ञानस्य । वैया-वृत्यकराणामुपयोगार्थं चतुर्थी स्तुतिः ॥५२॥ पाप-क्षपणा-ऽर्थमीर्यापथिकी वन्दनप्रत्ययादीनि षनिमित्तानि । प्रवचन-सुर-स्मरणाऽर्थमुत्सर्ग इति निमित्तान्यष्टौ ॥५३॥ चत्वारः तस्योत्तरी-करण-प्रमुखाः श्रद्धादिकाश्च पञ्चहेतवः । वैयावृत्य-करत्त्वादि त्रीणीति हेतवो द्वादश ॥५४॥ "अन्यत्र० आदि द्वादश" आकारा एवमादिका श्चत्वारः । अग्निः पञ्चेन्द्रिय-च्छेदन बोधि-क्षोभा-ऽऽदि दंशश्च ॥५५॥ घोटक-लता-स्तम्भा-ऽऽदि मालोद्धी-निगड-शबरि-खलिन-वधू-। लम्बदुत्तरीय-स्तन-संयति-भ्रमिता-ऽङ्गुलि-वायस-कपित्थाः ॥५६॥ शिर:कम्प: मूक-वासणि प्रेक्ष्या इति त्यजेद्दोषमुत्सर्गे। लम्बदुत्तर-संयतीर्न दोषाः श्रमणीनां स-वघूः श्राद्धीनाम् ॥५७॥