________________
५७
ચૈત્યવંદન ભાષ્ય वर्ण-त्रिकं वर्णाऽर्था-ऽऽलम्बनमालम्बनं तु प्रतिमादेः । योग-जिन-मुक्ता-शुक्ति-मुद्रा-भेदेन मुदा-त्रिकम् ॥१४॥ अन्योन्या-ऽन्तरिता-ऽङ्गुलि-कोशा-ऽऽकाराभ्यां द्वाभ्यां हस्ताभ्याम् । पिट्टोपरि-कूर्पर-संस्थिताभ्यां तथा योगमुदेति ॥१५॥ चत्वार्यगुलानि पुरत ऊनानि यत्र पश्चिमतः । पादयोरुत्सर्गः एषा पुनर्भवति जिनमुदा ॥१६॥ मुक्ता-शुक्तिर्मुदा यत्र-समौ द्वावपि गर्भितौ हस्तौ । तो पुनर्ललाट-देशे लग्नौ "अन्येऽलग्नाविति" ॥१७॥ पञ्चा-ऽङ्गः प्रणिपातः स्तव-पाठो भवति योग-मुद्रया । वन्दनं जिन-मुदया प्रणिधानं मुक्ता-शुक्त्या ॥१८॥ प्रणिधान-त्रिकं चैत्य-मुनि-वन्दन-प्रार्थना-स्वरूपं वा । मनो-वचः-कायैकत्त्वम् शेष-त्रिका-ऽर्थश्च प्रकट इति ॥१९॥ स-चित्त-द्रव्योज्झनम-चित्तानुज्झनं मन-एकत्वम् । एक-शाटकोत्तरा-ऽऽसङ्गमञ्जलिः शिरसि जिने दृष्टे ॥२०॥ इति पञ्च-विधा-ऽभिगमोऽथवा मुच्यन्ते राज-चिह्नानि । खड्गं छत्रमुपानन्मुकुटं चामरश्च पञ्चमे ॥२१॥ वन्दन्ति जिनान् दक्षिण-दिक्-स्थिताः पुरुषा वाम-दिशि नार्यः । नव-करो जघन्यः षष्टि-करो ज्येष्ठो मध्याऽवग्रहः शेषः ॥२२॥ नमस्कारेण जघन्या चैत्य-वन्दना मध्यमा दण्डक-स्तुति-युगला । पञ्च-दण्डक-स्तुति-चतुष्क-स्तव-प्रणिधानैरुत्कृष्टा ॥२३॥ अन्ये ब्रुवन्त्येकेन शक्र-स्तवेन जघन्या वन्दना । तद्-द्विक त्रिकेन मध्यमोत्कृष्टा चतुर्भिः पञ्चभिर्वा ॥२४॥ प्रणिपातः पञ्चाङ्गो द्वे जानू कर-द्विकमुत्तमा-ऽङ्गं च । सु-महा-ऽर्था नमस्काराः एको द्वौ त्रयो यावदष्टाऽधिक-शतम् ॥२५॥ अष्ट-षष्टिरष्टा-विंशतिर्नव-नवत्यधिकशतं च द्वे शते सप्त-नवत्यधिके । द्वे शते एकोन-त्रिंशदधिके द्वे शते षष्टयधिके द्वे शते षोडशाऽधिके ।
अष्ट-नवत्यधिकःशतं द्वि-पञ्चाशदधिक-शतम् ॥२६॥ इति नवकार-क्षमा-श्रमणेर्या-पथिकी-शक्र स्तवा-ऽऽदि-दण्डकेषु । प्रणिधानेषु चाऽद्विरुक्त-वर्णाः षोडश-शतानि सप्त-चत्वारिंशद् ॥२७॥ नव द्वा-त्रिंशत् त्रयस्त्रिंशत् त्रि-चत्वारिंशदष्टा-विंशतिः पोडश विंशतिः पदानि । मङ्गलेर्या-शक्र स्तवा-ऽऽदिष्वेकाशीत्यधिक-शतम् ॥२८॥