________________
भाष्य-त्रयस्य संस्कृत-च्छाया
१. चैत्य-वन्दन-भाष्यस्य वन्दित्वा वन्दनीयान् सार्वान् (सर्वान्) चैत्यवन्दनादि-सु- विचारम् । बहु-वृत्ति-भाष्य-चूर्णि-सूत्रा-ऽनुसारेण वक्ष्ये ॥१॥ दश-त्रिकमभिगम-पञ्चकं द्वि-दिशौ त्रिधाऽवग्रहस्त्रिधा तु वन्दना । प्रणिपात-नमस्कारौ वर्णाः षोडश-शतानि सप्त-चत्त्वारिंशत् ॥२॥ एका-ऽशीत्यधिक-शतं तु पदानि सत-नवतिः संपदस्तु, पञ्च दंडकाः । द्वादशा-ऽधिकाराश्चत्वारो वन्दनीयाः स्मरणीयाश्चतुर्धा जिनाः ॥३॥ चतस्रस्स्तुतयो निमित्तान्यष्टौ द्वादश-हेतवश्च षोडशा-ऽऽकाराः । एकोन-विंशतिर्दोषाः कायोत्सर्गमानं स्तोत्रं च सप्त-वेलाः ॥४॥ दशाऽऽशातना-त्यागः सर्वाणि चैत्य-वन्दनायां स्थानानि । चतुर्विंशति-द्वारैर्द्वि-सहस्रे चतुःसप्तति (श्च) ॥५॥ तिम्रो नैषेधिक्यस्तिस्रस्तु प्रदक्षिणास्त्रयश्च प्रणामाः । त्रिविधा पूजा च तथाऽवस्था-त्रिक-भावनं चैव ॥६॥ त्रि-दिक्षु निरीक्षण-विरतिः पद-भूमि-प्रमार्जनं च त्रि-कृत्वः । वर्णा-ऽऽदि-त्रिकं मुद्रा-त्रिकं च त्रि-विधं च प्रणिधानम् ॥७॥ गृह-जिनगृह-जिनपूजा-व्यापार-त्यागतो नैषेधिकी-त्रिकम् । अग्र-द्वारे मध्ये तृतीया चैत्य-वन्दना-समये १८॥ अञ्जलि-बद्धोऽर्धाऽवनतश्च पञ्चा-ऽङ्गश्च त्रयः पणामाः । सर्वत्र वा त्रि-वारं शिर-आदि-नमने प्रमाण-त्रिकम् ॥९॥ अङ्गा-ऽग्र-भाव-भेदात्पुष्याऽऽहार-स्तुतिभिः पूजा-त्रिकम् । पञ्चोपचाराअष्टोपचारा सर्वोपचारा वा ॥१०॥ भावयेदवस्था-त्रिकं पिण्ड-स्थ-पद-स्थ-रूप रहितत्वम् । छद्मस्थत्वं केवलित्वं सिद्धत्वं चैव, तस्याऽर्थः ॥११॥ स्नपनाऽर्चकैश्छद्म-स्था-ऽवस्था प्रातिहार्यैः केवलित्वम् । पर्योत्सर्गाभ्यां च जिनस्य भावयेत् सिद्धत्वम् ॥१२॥ उर्ध्वाधस्तीरश्चीनां त्रि-दिशां निरीक्षणं त्याज्यमथवा । पश्चिम-दक्षिण-वामानां जिन-मुख-न्यस्त-दृष्टि-युतः ॥१३॥