________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
देवदीपाली कथ्यते । तथैव इयमपि 'स्त्री' धन्या 'विधवाऽपि' पतिहीनाऽपि 'अविधवादेश्या' सधवासमा । 'अहो इत्याश्चर्ये' ।। २४ ॥
उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः । इतीव सङ्गमस्येह, नाम न ज्ञायते पितुः ॥ २५ ॥
'उत्तमाः' उत्कृष्टाः जनाः । 'स्वगुणैः' निज-क्षमादिकैः गुणैः । ‘ख्याता:' विश्रुताः । मध्यमास्तु मध्यमगुणधारकास्तु 'पितुः' जनकस्य 'गुणैः' दानादिकैः ख्याताः । इतीव 'इह' जगति 'संगमस्य' 'पितुः' जनकस्य 'नाम' अभिधानं 'न ज्ञायते' न श्रूयते । अयं भावः-संगमः किल भुवि स्वनाम्ना विख्यातः, न तु पितृनाम्ना, अतः स उत्तमः पुरुषः । यदुक्तम्-'उत्तमा आत्मनः ख्याताः, पितुः ख्याताश्च मध्यमाः । अधमा मातुलात् ख्याताः, श्वशुराच्चाधमाधमाः' ॥ २५ ।।
धन्या-दारिद्र्यम्निजाङ्गजस्य पोषाय, शोषाय प्राच्यकर्मणः । साऽन्यसद्मसु निश्च्छद्मा, चक्रे कर्माणि निर्मला ॥ २६ ॥
'निश्छद्मा' निष्कपटा निर्मला । 'सा' धन्या । 'निजाङ्गजस्य' स्वपुत्रस्य । 'पोषाय' पोषणाय । 'प्राच्यकर्मणः' पूर्वजन्मकृतपापकर्मणः । 'शोषाय' नाशाय । 'अन्यसद्मसु' परगेहेषु । 'कर्माणि' गृहकार्याणि । 'चक्रे' करोति स्म ॥ २६ ॥
सूतचूतस्य सेकाय, दारिद्रयानलशान्तये । चिन्तासन्तापनाशाय, दुःखपङ्कापनीतये ॥ २७ ॥ उग्रान्तरङ्गरोगार्ता, जलयोगचिकीरिव । दक्षा चिक्षेप साक्षेप-मुदकुम्भानदाम्भिका ॥ २८ ॥ (युग्मम् ) 'साक्षेपं' साक्रोशम् । 'दक्षा' चतुरा । 'अदाम्भिका' कपटरहिता । सा धन्या 'उदकुम्भान्' जलघटान् । 'चिक्षेप'
82828282828282828282828282828282888
॥११