________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
राजहंसवत् विवेकी । यथा हंसः क्षीरनीरे वेवेक्ति तथाऽयमपि सत्यासत्ये वेवेक्ति । 'स्वभावात्-एव' प्रकृत्या एव 'निर्मायः' मायारहितः, क इव ? 'सारङ्ग इव' हरिण इव ॥ २१ ॥
लघुनाऽपि कुलीनेना-विपरीतेन तेन सा । मुदिताऽभूद् विपत्त्रेणा-प्याशा विश्राम शाखिना ॥ २२ ॥
'विश्रामशाखिना' विश्रामे धन्यामनोरथविश्रान्तौ शाखिना-वृक्षतुल्येन । 'तेन' पुत्रेण । 'सा' धन्या। 'आशा' आशाभूता मनोरथमयीत्यर्थः । पक्षे-दिग । 'काष्ठाऽऽशा दिग हरित ककुप्' इति हैम्याम् । 'मुदिता' आनन्दिता 'अभूत्' जाता । कीदृशेन तेन ? 'लघुनाऽपि' बालकेनाऽपि वृक्षपक्षे-ह्रस्वेणाऽपि 'कुलीनेन' कुलोत्पन्नेन, पक्षे-पृथ्वीलीनेन (कु-पृथ्वी) 'अविपरीतेन' वैपरीत्यरहितेन विनीतेनेत्यर्थः । पक्षे-न विभिः-पक्षिभिः परीतेन-युक्तेन । 'वि-वय:-शकुन्ताः' इति हैम्याम् । 'विपत्रेण' विपद्भ्यः त्रायते विपत्तस्तेन विपद्क्षकेण । पक्षे-विगतपत्रेण अपि आशा-दिग् मुदिता अभूदित्यर्थः ॥ २२ ।।
अनिन्दुरपि दीपाली-रजनी दीप्रदीपिका । विधवाऽपि तथा नारी, राजते पुत्रदीपिका ॥ २३ ॥
'अनिन्दुरपि' इन्दुना-चन्द्रेण रहिता अपि 'दीपाली-रजनी' दीपालिकारात्रिः । 'दीप्रदीपिका' दीप्रा: दीपिका: यस्यां सा । राजते तथा इयमपि । 'अनिन्दुः' न मृताऽपत्यप्रसविनी, 'नश्यत्प्रसूतिका निन्दुः' इति हैम्याम् । 'नारी' धन्या 'विधवाऽपि' विगतधवा-पतिरहिताऽपि । 'पुत्रदीपिका' पुत्र एव दीपकः यस्याः सा । अस्यायत्तत्क्षिपकादीनाम् २।४।११।। इति हैमसूत्रेण दीपिका । 'राजते' शोभते ॥ २३ ॥
यथा दीपालिकाकल्पा कीर्त्यते किल कार्तिकी । तथैवाऽविधवादेश्या, स्त्री पुत्राद् विधवाऽप्यहो ॥ २४ ॥ यथा किल 'कार्तिकी' पूर्णिमा दीपालिकाकल्पा किञ्चिदूना दीपालिका कीयते कथ्यते । कार्तिकी-पूर्णिमा
satasa8RSR88RSONASRSASASASRSANASNA