________________
श्री
शालिभद्र महाकाव्यम्
Terr
क्षिपति स्म । किमर्थं ? 'सुतचूतस्य' पुत्रसहकारतरो: । 'सेकाय' सिञ्चनाय । 'दारिद्र्यानलशान्तये' निर्धनताग्निशमनाय । 'चिन्तासन्तापनाशाय' चिन्ताजन्यः यः सन्तापः तस्य नाशाय ध्वंसाय । 'दुःखपङ्कापनीतये' दुःखकर्दमं दूरीकर्तुं । कीदृशी सा ? 'उग्रान्तरङ्गरोगार्त्ता' उग्रै: प्रचण्डैः दारिद्र्याद्यैरन्तरङ्गैः रोगैः आर्त्ता पीडिता । 'जलयोगचिकी: इव' जलयोगं चिकीर्षतीत्येवंशीला । यथा किल उग्ररोग पीडितः जलयोगं करोति तथा इयमपि ॥ २७ ॥ २८ ॥
सम्मार्जनं चकाराऽर्या, हर्म्याणां कर्मणामिव । घरट्टै र्दलयामास, मरट्टै र्विपदामिव ॥ २९ ॥
'आर्या' आर्यकुलोद्भवा सा धन्या 'कर्मणामिव' प्राक्तनकर्मणामिव । 'हर्म्याणां धनिकगृहाणां । 'संमार्जनं' शुद्धि । 'चकार' करोति स्म । 'विपदां' दुःखानाम् । 'मरट्टैरिव' मर्दकैरिव । 'घरट्टैः' ('घंटी' इति भाषायाम्) 'दलयामास' दलयति स्म ॥ २९ ॥
अखण्डं खण्डयन्ती सा, मुसलैः कुशला कणान् । दुरन्तदुरितानीव, रेजे रञ्जितसज्जना ॥ ३० ॥ 'कुशला' चतुरा । 'रञ्जितसज्जना' प्रीणितसुजना । 'सा' धन्या । मुसलैः 'कणान्' धान्यादिखाद्यावयवान् । 'दुरन्तदुरितानीव' गहनपापानीव । 'अखण्डं' सततं । 'खण्डयन्ती' खण्डनं कुर्वती । 'रेजे' राजते स्म ॥ ३० ॥ भोज्याच्छादनसन्देहे देहे चिन्ताग्निना तथा । धनिगेहेषु सा देहे, सेहे दुःखं यथा भृशम् ॥ ३१ ॥
यथा 'सा' धन्या । 'धनिगेहेषु' श्रीमद्गृहेषु । 'देहे' शरीरे । 'भृशं' अत्यन्तं । 'दुःखं' विपदं । 'सेहे' सहते स्म । तथा भोज्याच्छादनसन्देहे' भोजनवस्त्रसंशये । 'चिन्ताग्निना' चिन्तावह्निना । 'देहे' दह्यते स्म । मनसि अपि इति शेषः ॥ ३१ ॥
FRERERER
प्रथमः प्रक्रमः
॥ १२ ॥