________________
श्री शालिभद्र
महाकाव्यम्
FRERERE
गोवत्सान् चारयन् सङ्गमः
अथाष्टवर्षः सोत्कर्षः, सङ्गमः स्फुरदुद्यमः । गोचरे चारयामास, वत्सरूपाणि वत्सलः ॥ ३२ ॥ अथ 'अष्टवर्ष:' अष्टवत्सरवया: । 'सोत्कर्ष: ' सोत्साहः । 'स्फुरदुद्यमः' उल्लसदूर्जा: । 'वत्सलः' गोवत्सेषु वात्सल्यभृत्। ‘सङ्गमः' धन्यापुत्रः । ' गोचरे' गावो यत्र चरन्ति तस्मिन् । 'वत्सरूपाणि' गोवत्सानि । 'चारयामास' चारयति स्म ॥ ३२ ॥
जगन्मित्रावलोकेन, स बुद्धः शुद्धबुद्धिमान् । त्यक्तस्वविषयग्रामो, दण्डचीवरखण्डभृत् ॥ ३३ ॥ पवित्रगोप्रसूतानि, वत्सरूपाण्यमत्सरः । पुरस्कृत्य कृती पुण्य कर्माणीव वनान्यगात् ॥ ३४ ॥
'जगन्मित्रावलोकेन' सूर्यावलोकेन । मुनिपक्षे अर्हदवलोकेन । 'बुद्धः' जागृतः, पक्षे- ज्ञाततत्त्व: । 'शुद्धबुद्धिमान्' । विमलमतिः, पक्षे-जैनतत्त्वज्ञानात् शुद्धबुद्धिः । स सङ्गमः । 'पुण्यकर्माणीव' सुकृतकर्माणीव 'वनानि' गहनानि । 'अगात्' गच्छति स्म । कीदृशः सः ? ' त्यक्तस्वविषयग्रामः ' परिहतनिजदेशग्रामः । पक्षे परिहृतेन्द्रियविषयग्राम: । 'दण्डचीवरखण्डभृत्' दण्डं च वस्त्रखण्डं च बिभर्तीत्येवंशीलः । पक्षे - तथाभूतः साधुः । धारयत्येव जैनमुनिः दण्ड- वस्त्रखण्डादीनि । 'अमत्सरः ' मात्सर्यरहित: । जैनमुनिरपि अमत्सरः एव भवति । 'कुती' सुकृती पुण्यवान् । पक्षे-विद्वान् मुनिः । 'ज्ञः प्राप्त - रूप- कृति - कृष्ट्यभिरूपधीरा:' इति हैम्याम् । किं कृत्वा ? 'वत्सरूपाणि गोवत्सानि । पक्षे-लक्षणार्थतः वचनानि । 'पुरस्कृत्य ' अग्रेकृत्वा । कथम्भूतानि ? 'पवित्र गोप्रसूतानि' पवित्रायाः गोः प्रसूतानि जातानि । पक्षे पवित्रवाणी - प्रसूतानि ॥ अथवा यथा कृती पुण्यकर्माणि पुरस्कृत्य याति तथा सः वत्सरूपाणि पुरस्कृत्य वनानि अगात् इत्येवमपि अर्थ: स्यात् ॥ ३३ ॥ ३४ ॥
GRERERER
प्रथमः
प्रक्रमः
॥ १३ ॥