________________
श्री
शालिभद्र
महाकाव्यम्
Terr
नारीणां वाग् यथा तथ्या, कुमारीणां विशेषतः । गवां रेणुस्तथा पथ्या, वत्सानां तस्य साधिकम् ॥ ३५ ॥ यथा 'नारीणां' स्त्रीणां । 'वाक्' वाणी 'तथ्या' सत्या। 'विशेषतश्च' विशेषरूपेण च । 'कुमारीणां' कन्यानां । वाणी सत्या भवति । तथा 'गवां' धेनूनां । 'रेणु' रज: । 'पथ्या' हिता । पुनः 'तस्य' सङ्गमस्य वत्सानां 'सा' रेणुः । 'अधिक' विशेषतः पथ्या अभूत् ॥ ३५ ॥
सुहितानीन्द्रियाणीव, वत्सरूपाण्यतुच्छधीः । विचार्य संवरं नीत्वा, कम्बली कुक्षिशम्बली ॥ ३६ ॥ मूलोत्तरगुणग्राम-सङ्गतिर्मातृभक्तिभाग् । निशासु सुखशय्यायां स साधुरिव लीयते ॥ ३७ ॥
'अतुच्छधीः' उदात्तमतिः । 'सः' सङ्गमः । 'सुहितानि' अतिशयहितकराणि तृप्तानि वा । 'इन्द्रियाणीव' करणानीव । 'वत्सरूपाणि' वत्सानि । 'विचार्य' विशेषेण चारयित्वा । साधुपक्षे - चिन्तयित्वा 'संवरं' जलम् । 'नीत्वा' पाययित्वा । पक्षे-उपशमं नीत्वा संयम्य वा । 'कम्बली' कम्बलोऽस्ति यस्य सः गोपः साधुश्च । 'कुक्षिशम्बली' कुक्षिमात्रं उदरमात्रं 'शम्बलं' पाथेयं तद्वान् ॥ ३६ ॥
'मूलोत्तरगुणग्रामसङ्गतिः' मूलात् शैशवात् आरभ्य उत्तरा - उत्कृष्टा गुणग्रामसङ्गतिः गुणसन्दोहसहितता यस्य सः । पक्षे- 'मूलगुणाः ' महाव्रतानि । 'उत्तरगुणाः' पिण्डविशुद्ध्यादयस्तेषां सन्दोहसङ्गतिः यस्य सः । मातृभक्तिभाग्' जनन्याः भक्तः । पक्षे अष्टप्रवचनमातृभक्तिभाग् । 'निशासु' रात्रिषु । 'साधुरिव' मुनिरिव' 'सुखशय्यायां सुखकारिशयनीये । पक्षे - सुखकरवसतौ । 'लीनाति' स्वपितीत्यर्थः ॥ ३७ ॥
KER
प्रथमः
प्रक्रमः
॥ १४ ॥