________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सङ्गमस्य क्षीरभोजनेच्छाअन्यदाऽपश्यदुत्पश्यः, पर्वणि क्वापि बालकः । कदन्नभोजनस्तत्र, परमान्नं गृहे गृहे ॥ ३८ ॥
'अन्यदा' एकस्मिन् समये । 'क्वापि' कस्मिंश्चित् । 'पर्वणि' पर्वोत्सवसमये । 'कदन्नभोजनः' कुत्सितभोजनभुक् । 'उत्पश्यः' उर्ध्वं पश्यतीत्येवंशील: उन्मुखः इत्यर्थः । 'बालकः' सङ्गमः । 'तत्र' शालिग्रामे । 'गृहे गृहे' प्रतिगृहं । 'परमान्नं' पायसं । 'अपश्यत्' पश्यति स्म ॥ ३८ ॥
अतुच्छमुत्सवं मत्वा, तत्त्वातत्त्वाविचारकः । स निजां जननी सभ्य-मभ्यधादिभ्यपुत्रवत् ॥ ३९ ॥
'तत्त्वातत्त्वाविचारकः' तत्त्वातत्त्वयोः सदसतोः अविचारकः अचिन्तक: बाल्यत्वात् । 'सः' सङ्गमः । 'अतुच्छं महान्तं' 'उत्सवं' महम् । 'मत्वा' ज्ञात्वा । 'निजां' स्वां । 'जननी' मातरं । 'सभ्यं' प्रधानं यथा स्यात्तथा । 'इभ्यपुत्रवत्' श्रेष्ठिपुत्रवत् । 'अभ्यधात्' भाषितवान् ॥ ३९ ॥
अम्बाऽविलम्बं सद्योऽद्य, मह्यं सह्याय सज्जय । पायं काय-संप्रीत्यै, सितायुक्तं घृतप्लुतम् ॥ ४० ॥
'अम्ब' हे मातः !। अद्य 'सह्याय' नीरोगाय । 'मां' मत्कृते 'सद्यः' सपदि । 'अविलम्बं' विलम्बं विहाय । 'पायसं' परमान्नं । 'सज्जय' कुरु । तच्च कीदृशम् ? 'सितायुक्तं' शर्करासहितं । 'घृतप्लुतं' सर्पिमिश्रितं । कथम्? 'कायसम्प्रीत्यै', कायस्य शरीरस्य सम्प्रीत्यै देहपुष्टयै ॥ ४० ॥
माता प्रोवाच हे वत्स ! रूपनारायणस्य ते । निजलीलाविलासस्य, बालकस्य बलिः क्रिये ॥ ४१ ॥
828282828282828282828282828282828282
॥ १५ ॥