________________
श्री शालिभद्र महाकाव्यम्
CHEKER
'माता' जननी 'प्रोवाच' भाषितवती । 'हे वत्स !' हे पुत्र ! 'रूपनारायणस्य' रूपेण विष्णुतुल्यस्य । 'निजलीलाविलासस्य' स्वक्रीडाविभ्रमस्य । 'बालकस्य' शिशोः । 'ते' तव । अहं 'बलिः ' उपहारः 'क्रिये' । विष्णुतुल्यस्य तव कृते अहं बलिरूपा भवामीत्यर्थः ॥ ४१ ॥
न्युञ्छनं तव नेत्राणां, भाषितस्यावतारणम् । भ्राम्येऽहं भुजयो जत-मुखकस्य म्रिये म्रिये ॥ ४२ ॥ 'तव' 'नेत्राणां' नयनानां । 'न्युञ्छनं' 'लुछणुं' इति भाषायाम् । 'भाषितस्य' वचनस्य च 'अवतारणं' 'ओवारणं' इति भाषायाम् । करोमीति शेषः । 'जातमुखकस्य' जातं मुखकं मुखं, कः स्वार्थिकः, लक्षणार्थतः वचनं यस्य तस्य पुत्रस्य । 'भुजयो:' दोष्णोः अहं 'भ्राम्ये' अहं भ्रमणं करोमि । 'म्रिये म्रिये' तव कृते प्राणानपि जहामि । 'मरी फीटुं' इति भाषायाम् ॥ ४२ ॥
प्रमोदमेदुरस्वान्त, सदा सन्तुष्ट जात ते । बालकस्याप्यबालस्य, न कदापि कदाग्रहः ॥ ४३ ॥
'प्रमोदमेदुर-स्वान्त' हे हर्षमुदित मनः ! 'सदा सन्तुष्ट' नित्यं सन्तोषवन् । 'जात' पुत्र ! । तव 'बालकस्यापि ' शिशोरपि । 'अबालस्य' विदुषः । 'कदापि' कस्मिन्नपि समये । 'कदाग्रहः ' हाग्रहः । 'न' न जातः ॥ ४३ ॥
श्रद्धां ते पुरयिष्यामि, दूरयिष्याम्यमङ्गलम् । वदन्ति प्रति पुत्रं हि प्रत्यनीकं न मातरः ॥ ४४ ॥
'ते' तव । 'श्रद्धां' आशाम् । 'पूरयिष्यामि' पूर्णां करिष्यामि । 'अमङ्गलं' अभद्रम् । 'दूरयिष्यामि' नाशयिष्यामि । " इति तं प्रति माता प्रोवाच । यतः 'मातरः' जनन्यः । पुत्रं सुतम् प्रति । 'प्रत्यनीकं' प्रतिकूलम् । 'न वदन्ति' न भाषन्ते । उक्तं च- 'सुधामधुविधुज्योत्स्ना मुद्वीकाशर्करादिभिः । वेधसा सारमुद्धृत्य विहितं जननीमनः ॥ ४४ ॥
FRERERE
प्रथमः
प्रक्रमः
।। १६ ।।