________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
साक्षादिव सुधासारै-ाहारैरतिरञ्जितः । मात्रा मात्राधिकं बाल-स्तत्कालमगमद् गृहात् ॥ ४५ ॥
'साक्षादिव' प्रत्यक्षमिव । 'सधासारः' अमृतसारैः । व्याहारैः' वचनैः । 'व्याहारो भाषितं वचः' इति हैम्याम् । 'मात्रा' जनन्या । 'मात्राधिकं' अतिमात्रम् । 'अतिरञ्जितः' अतिप्रीणितः । 'बालः' सङ्गमः । 'तत्कालं' तत्क्षणम् । 'गृहात्' गेहात् । 'अगमत्' जगाम ॥ ४५ ॥
वन्या वल्लीव धन्याऽथ, स्वाङ्गजस्य गजस्य सा । दन्तैरुदन्तैर्वाञ्छाया, धुता विच्छायतामिता ॥ ४६ ॥
अथ 'धन्या' सङ्गममाता । 'स्वाङ्गजस्य' निजपुत्रस्य । 'गजस्य' गजतुल्यस्य । 'वाञ्छायाः' इच्छायाः । 'दन्तैः' दन्ततुल्यैः । 'उदन्तैः' वृत्तान्तैः । 'धुता' कम्पिता । 'वन्या' बने भवा वन्या । 'वल्लीव' लतेव । 'विच्छायतां' म्लानिम्। 'इता' प्राप्ता । अयं भाव:-यथा किल गजदन्तधुतवल्ली विच्छायतां गच्छति तथा धन्याऽपि पुत्रवाञ्छावृत्तान्तैः म्लानि गता। तस्यास्तत्पूरणेऽसामर्थ्यात् ॥ ४६ ॥
धन्यायाः विलापः । साऽचिन्तयदथ व्यर्थ-प्रत्याशाविधुराशया । मत्तोऽधिकां व्यधाद्वधा, वशां कां दुर्दशावशाम् ॥ ४७ ॥
अथ 'व्यर्थप्रत्याशाविधुराशया' पुत्रं प्रति वृथाश्वासनव्याकुलहृदया । 'अचिन्तयत्' चिन्तयति स्म । किमित्याह'वेधाः' ब्रह्मा 'मत्तोऽधिकां' मदधिकाम् । 'दुर्दशावशां' दुर्दैवपराधीनां कां 'वशां' नारीम् । 'व्यधात्' अकरोत् ? न कामपीत्यर्थः ॥ ४७ ॥
निम्नं स्त्रीजन्म तत्रापि, वैधव्यं नव्यदुःखकृत् । दौःस्थ्यं स्थानमनस्थाया, दास्यं हास्यकरं जने ॥ ४८ ।।
828282828282828282828282828282828482