________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
'जने' लोके प्रथमं तावत् । 'स्त्रीजन्म' महिलारूपेण जन्म । 'निम्नं' तुच्छम् । अनन्त-पापराश्युदयात् स्त्रीजन्म लभ्यते इति आगमेऽपि कथितमेव । 'तत्रापि' स्त्रीजन्मन्यपि । 'वैधव्यं' पतिराहित्यम् । 'नव्यदुःखकृत्' अधिककष्टकारि । तत्रापि 'दौःस्थ्यं' दौर्गत्यं दारिद्रयम् । 'अनास्थायाः' अश्रद्धायाः । 'स्थानं' धाम । तत्रापि 'दास्यं' दासत्वम् । 'हास्यकरं' हास्यास्पदमिति ।। ४८ ॥
स्मारं स्मारं पूर्वसौख्यं, तारं तारं रुरोद सा । रीणानामिह नारीणा-मुदितं रुदितं बलम् ॥ ४९ ॥
'सा' धन्या । 'पूर्वसौख्यं' सधवाऽवस्थायाः सुखम् । 'स्मारं स्मारं' स्मृत्वा स्मृत्वा 'तारं तारं' अत्यन्तमुच्चैः । __ 'रुरोद' रोदिति स्म । 'इह' लोके । 'रीणानां' खिन्नानाम् । 'नारीणां' स्त्रीणाम् । 'रुदितं' क्रन्दितम् । 'बलं' शक्तिः । 'उदितं' कथितम् ॥ ४९ ॥
हा मातः ! किमहं जाता? हा पितः पालिताऽस्मि किम् ? । विपदां वर्णकग्रामः, प्रकाममसुखास्पदम् ॥५०॥
'हा' इति खेददर्शकमव्ययम् । 'मातः' रे जननि ! अहं किं कस्मै प्रयोजनाय 'जाता' पुत्रीत्वेन उत्पन्ना ? 'हा पितः' रे जनक ! किं कथम् । 'पालिता' आहारादिना पोषिता ? यतोऽहं 'विपदां' दुःखानाम् । 'वर्णकग्राम:' दृष्टान्तसमूहः । 'वानगी' इति भाषायाम् । यावन्त्यो जगति विपदः सन्ति तासां दृष्टान्ताः मयि विद्यन्ते इत्यर्थः । 'प्रकामं' अत्यन्तम् । 'असुखास्पदं' दुःखस्थानमस्मीत्यर्थः ॥ ५० ॥
अभद्राऽपि यथा भद्रा, धन्याऽहं नामतस्तथा । एकदाऽप्येकपुत्रस्य, नालम्भूष्णुः सुभोजने ॥ ५१ ॥ यथा अभद्राऽपि अकल्याण्यपि तिथि: 'भद्रा' इति नामतः' इति नाम्ना प्रसिद्धा । यदुक्तं-भौमे 'मंगल' नाम
ARRARAUAYA8A8282828282828AKUR
॥१८॥