________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
विष्टिविषये, 'भद्रा' कणानां क्षये । 'वृद्धिः' शीतलिकेति तीव्रपिटके, 'राजा' रज:पर्वणि || 'मिष्टत्वं' लवणे विषे च 'मधुरं', 'जामिः' सपत्न्यां पुनः । 'पात्रत्वं' च पणाङ्गनासु रुचिरं, नाम्ना तथा नार्थतः ॥ (शार्दूल.) 'तथा' तेन प्रकारेण । 'अहं' अहमपि । 'नामतः' अभिधानत एव 'धन्या' । वस्तुतस्तु अधन्या एव । यतः 'एक-पुत्रस्य' सङ्गमस्यैकस्य । 'सुभोजने' परमानरूप - स-रसाऽऽहारेच्छापूरणे । 'एकदाऽपि सकृदपि । 'नालम्भूष्णुः' न समर्थाऽस्मीत्यर्थः ॥ ५१॥
श्रुत्वेति प्रतिवेशिन्य, आवेशिन्यस्तया शुचा । तर्जनेन प्रदेशिन्यः, सुखादेशिन्य ऐयरुः ॥ ५२ ॥
'श्रुत्वेति' इति धन्याप्रलापं आकर्ण्य | 'प्रतिवेशिन्यः' प्रातिवेश्मिक्यः । 'पाडोशी' इति भाषायाम् । 'ऐयरुः' आगच्छन्। कीदृश्यः ? 'तया शुचा' तेन शोकेन । 'आवेशिन्यः' आवेशवत्यः व्याकुलाः । 'तर्जनेन' धन्यादुःखनिवारणाऽसमर्थमात्मानं प्रति तर्जनेन-तिरस्कारेण । 'प्रदेशिन्यः' तर्जन्यः तर्जन्यङ्गलीसदृश्यः । 'तर्जनी तु प्रदेशिनी' इति हैम्याम् । 'सुखादेशिन्यः' सुखदायिन्यः ॥ ५२ ॥
राजन्यस्येव राजन्यः, प्रायोऽरिः प्रातिवेश्मिकः । क्षेत्रावनेरिवास्यास्तु, स्रवन्त्यस्ता रसश्रिये ॥ ५३ ॥
यथा राजन्यस्य' क्षत्रियस्य । अन्यो राजन्यः' पर: क्षत्रियः । प्रायः' प्रायेण । 'अरि:' शत्रुः । तथैव प्रातिवेश्मिकस्य अन्य: प्रातिवेश्मिकः प्रायः अरिः । किन्तु धन्याविषये नैवम् । क्षेत्रावनेः इव' केदारपृथिव्याः इव । 'ताः' प्रातिवेश्मिक्यः' 'स्रवन्त्यः' अश्रुधारया स्रवन्त्यः । क्षेत्र-पक्षे-नद्यः । 'रसश्रिये' परमान्नरूपरसवतीश्रिये । पक्षे-जलश्रिये । अभवन्निति शेषः ।। ५३॥
स्वसः संवृणु निःश्वासान्, मातर्मातः परं रुदः । कल्याणवल्लेः कल्याणि, वारणं कारणं वद ॥ ५४ ॥ 'स्वसः' हे भगिनि ! । 'निःश्वासान्' दुःखरूपान् निःश्वासान् । 'संवृणु' अपनय । 'मातः' हे अम्ब ! । 'अतः
satasa8RSR88RSONASRSASASASRSANASNA
॥१९॥