________________
प्रथम
श्री शालिभद्र महाकाव्यम्
पक्रमः
8282882 8282828282828282828282828282
परं' अत: पश्चात् । 'मा रुदः' मा रुदिहि । 'कल्याणि' हे कल्याणमयि ! । 'कल्याणवल्लेः' तव भद्रलतायाः । 'वारणं' निवारकं । 'कारणं' हेतुम् । 'वद' ब्रूहि ॥ ५४ ॥
कुशलं कुशलं सूनोः, शान्तं शान्तममङ्गलम् । इत्यूचुः सूचित-स्नेह-सर्वस्वास्तां तदा हि ताः ॥ ५५ ॥
'सूनोः' पुत्रस्य । कुशलं कुशलं भद्रं भद्रम् । 'अमङ्गलं' अकल्याणं । 'शान्तं शान्तं' अति शान्तं भवतु । इति 'सूचितस्नेहसर्वस्वाः' देयत्वेन सूचितं स्नेहेन सर्वस्वं याभिः ताः प्रातिवेश्मिक्यः । 'तदा' तस्मिन् काले । 'तां' धन्याम् । 'ऊचुः' बभाषिरे ॥ ५५ ॥
अथो विधूय नेत्राम्बु, प्राञ्जला कम्बलाञ्चलैः । शुचिः सोवाच शोचामि, मन्दभाग्या किमात्मनः ? ॥५६॥
अथो 'कम्बलाञ्चलैः' कम्बलस्य अञ्चलैः प्रान्त-भागैः । 'नेत्राम्बु' नयनाथु । 'विधूय' अपनीय । 'शुचिः' पवित्रा। 'प्राञ्जला' सरला । 'सा' धन्या । 'उवाच' वदति स्म । यत् 'मन्दभाग्या' अल्पपुण्या । 'आत्मनः' स्वस्य । 'किं' वस्तु । 'शोचामि' शोकं कुर्वे ? || ५६ ॥
प्रलापकारणं कथयन्ती धन्याआजन्म दुःखदग्धां मां, विदग्धा अपि मुग्धवत् । तापं किं पृच्छत स्वच्छा, इष्टिकापाकमूषिकाम् ॥ ५७ ॥
'स्वच्छा' निर्मलहृदया: । 'विदग्धाः' चतुरा: अपि यूयम् । 'मुग्धवत्' अज्ञवत् । 'आजन्मदुःखदग्धां' आजीवनकष्टग्रस्ताम् । 'इष्टिकापाकमूषिकां' इष्टिकापाक ('निभाईं' इति भाषायाम्) समीपबिलस्थितां मूषिकासदृशीं मां । 'तापं' शरीरचित्तादिसन्तापम् । किं पृच्छत ? किं पृच्छां कुरुत ? ॥ ५७ ।।
828282828282828282828282828282828482
॥२०॥