________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
विशेषस्तु विशेषज्ञा, मनोरथरथेऽद्य माम् । अवेदनः सुतः सूतः, संयुयोज जरद्गवीम् ॥ ५८ ॥
'विशेषज्ञाः' विशिष्टविज्ञाः हे प्रातिवेश्मिक्यः ! 'विशेषस्तु' विशिष्टोऽयं वृत्तान्तः । अद्य 'अवेदनः' विशिष्टज्ञानविहीनः । 'सूतः' सारथिः सूततुल्यः । 'सुतः' पुत्रः । 'मनोरथ-रथे' मनोरथः एव रथः तस्मिन् । 'जरद्गवीं' जरती गौः तत्समाम् माम् । 'संयुयोज' सम्यक् युनक्ति स्म ॥ ५८ ॥ ___तन्निर्वाहाक्षमा क्षामा, विषीदामि निषीदत । हेतुर्नान्यः सौख्यकेतु-र्भवत्सन्निधिसन्निधेः ॥ ५९ ॥
'तन्निर्वाहाक्षमा' तन्निर्वाहे तन्मनोरथपूरणे अक्षमा-असमर्था । 'क्षामा' कृशा । 'विषीदामि' विषादं करोमि । 'यूयं निषीदत' उपविशत । 'भवत्सन्निधिसन्निधेः' भवतीनां सन्निधिः-सान्निध्यं सामीप्यं एव सन्निधिः-शोभनो निधिः तस्मात् । 'सौख्य-केतुः' मम सौख्यस्य केतुः केतनम् सुखसूचकमित्यर्थः । 'अन्यो हेतुः' अपरं कारणम् । 'न' न विद्यते ॥ भवत्सान्निध्यमेव मम सुखकारणमिति भावः ॥ ५९ ॥
प्रातिवेश्मिकीनां मधुरप्रत्युत्तरम्ततस्ता विस्मिता स्माहुरैन्द्रो गज इवाङ्गजः । कल्पद्रुमफलश्रेणी, निस्सहे ! किं समीहते ? ॥ ६० ॥
'ततः' तत्पश्चात् । 'ताः' प्रातिवेश्मिक्यः । 'आहुः' कथयन्ति । 'निःसहे' हे असमर्थे ! । 'ऐन्द्रो गजः इव' ऐरावणहस्तीव । 'अङ्गजः' तव पुत्रः । किं 'कल्पद्रुमफलश्रेणी' कल्पतरुफलावली । 'समीहते' इच्छति ? ॥ ६० ॥
गद्गदं सा जगादाथ, सुस्निग्धं वसुधासुधा । प्रतीतं परमप्रीत्यै, निसर्गात् स्वर्गिणामपि ॥ ६१ ॥ पायसं सद्वच इव, निर्द्धनैः क्वापि नाप्यते । तत्तेनायाचि यद् दृष्ट-श्रद्धालुर्बालको जनः ॥ ६२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२१॥