________________
श्री
शालिभद्र महाकाव्यम्
FRERER
अथ 'सा' धन्या । 'गद्गदम्' गद्गद्तापूर्वकम् । 'जगाद' जल्पति स्म । 'सुस्निग्धं' घृतादिना सम्यक् स्निग्धम् । 'वसुधासुधा' वसुधायां पृथिव्यां सुधा अमृतरूपम् । 'स्वर्गिणामपि' देवानामपि । 'निसर्गात्' स्वभावात् । 'परमप्रीत्यै' अत्यन्ततोषाय । 'प्रतीतं' प्रख्यातम् ॥ ६१ ॥ 'पायसं' परमान्नम् । 'सवच इव' मधुरवचनमिव । 'निर्द्धनैः' दरिदैः । 'क्वापि' कुत्रापि । 'नाप्यते' न लभ्यते । तद्वत् तत् पायसम् । 'तेन' बालेन । 'अयाचि' याच्यते स्म । 'यद्' यत:। 'बालको जनः' शिशुलोकः । 'दृष्टश्रद्धालुः' दृष्टं वस्तु श्रद्दधाति समीहते इत्येवंशीलः भवति ॥ ६२ ॥
ऊचुस्ताः सज्जनंमन्या:, समदुःखसुखा वयम् । अनया चर्चया वर्ये!, स्नेहशून्या विभाविताः ॥ ६३ ॥ 'सज्जनंमन्याः' आत्मानं सज्जनं मन्यन्ते इत्येवंशीलाः । ताः' प्रातिवेश्मिक्यः । 'ऊचुः' अवोचन् । वयं 'समदुःखसुखा:' समानानि दुःखसुखानि यासां ताः दुःखे दुःखिन्यः सुखे सुखिन्यः स्मः इत्यर्थः । किन्तु वर्ये! हे श्रेष्ठे ! अनया 'चर्चया' आलापेन । त्वया वयं 'स्नेहशून्या: ' प्रेमरहिता: । 'विभाविता:' विज्ञापिता: ॥ ६३ ॥
धन्ये धन्यासि मानार्थे, जीवं मुञ्चन्ति मानिनः । जीविताधिक-पुत्रार्थे, त्वं तु मानं न मुञ्चसि ॥ ६४ ॥ 'मानार्थे' स्वगौरवार्थम् । 'मानिन: ' स्वमानिनः पुरुषाः । 'जीवं' प्राणान् । 'मुञ्चन्ति' त्यजन्ति । त्वं तु 'जीविताधिकपुत्रार्थे' प्राणेभ्योऽपि प्रियस्य पुत्रस्य अर्थे कृते । 'मानम्' स्वगौरवमपि । न मुञ्चसि न जहासि । 'धन्ये' हे धन्ये ! । त्वं सत्यं 'धन्या' न केवलं नाम्ना, किन्तु कार्येणाऽपि धन्या । 'असि' वर्तसे । हे धन्ये स्वमानिनः स्वगौरवरक्षणार्थं जीवनमपि त्यजन्ति । त्वं तु प्राणप्रियपुत्रार्थं स्वगौरवमपि न त्यजसि । सत्यं त्वं 'धन्या' असि, स्वगौरवस्य रक्षणात् - इति भावः ॥ ६४ ॥
sa
प्रथमः
प्रक्रमः
॥ २२ ॥