________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
धूमरीभिरिवास्माभिः, शाम्येद् दुःखानलो न चेत् । वेरिखास्य बालस्य, किं नान्तीयते रुचिः ॥ ६५ ॥
'धूमरीभिरिव' अवश्यायतुल्याभिः (धूमरी-'झाकल' इति भाषायाम्) 'अस्माभिः' प्रातिवेश्मिकीभिः । 'चेत्' यदि। 'दुःखानलः' तव विपत्तिदवाग्निः । 'न शाम्येत्' न शान्तः स्यात् । किन्तु 'रवेरिव' सूर्यस्येव । 'अस्य बालस्य' शिशोः सङ्गमस्य । 'रुचिः' अभिलाष: । रविपक्षे-किरण: । 'कि' कथम् । 'नान्तीयते' न आच्छाद्यते ? अयं भाव:-धूमरीलहरीभिः दावानल: न शाम्यति, किन्तु सूर्यकिरणास्तु छाद्यन्ते एव, तद्वत् वयं प्रातिवेश्मिक्यः तव सर्वदुःखाऽपनयने असमर्थाः किन्तु तव पुत्रेच्छापूरणे तु समर्थाः एव ॥ ६५ ॥
काऽप्यवादीदिमं पुत्रं, भोजयिष्ये स्व-वेश्मनि । पराऽवोचद्युक्तमेवं, प्रत्येकं क्रमशः पुनः ॥ ६६ ॥
'काऽपि' स्त्री । 'अवादीत्' अवोचत् । 'इमं पुत्रं' सङ्गमं बालम् । 'स्व-वेश्मनि' निजगृहे । 'भोजयिष्ये' भोजनं कारयिष्यामि । 'परा' अन्या काचित् स्त्री । 'अवोचत्' अकथयत् । 'एवं' इत्थम् । 'प्रत्येक' प्रत्येकस्त्रीणां गृहे । 'क्रमशः' क्रमेण । पुन: "युक्तं' भोजयितुं समुचितम् ॥ ६६ ।।
माता प्रमोदते नैवमन्याऽऽचष्ट विशिष्टधीः । परा बभाषे सम्भूय, सर्वाः कुर्मो वयं त्वदः ॥ ६७ ॥
'अन्या' परा । 'विशिष्टधीः' असाधारणमतिः स्त्री । 'आचष्ट' अवक् । 'माता' जननी । 'एवं' अन्यगृहे भोजनेन। 'न प्रमोदते' न प्रसन्ना भवति । 'परा' अन्या कापि । 'बभाषे' उवाच । 'वयं सर्वाः' सकला: प्रातिवेश्मिक्यः । 'सम्भूय' सम्मील्य । 'अदः' परमान्नम् । 'कुर्मः' विदध्मः' ॥ ६७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२३॥