________________
श्री शालिभद्र महाकाव्यम्
ANASASA
क्षीरवस्तूनि आनयन्त्यः प्रातिवेश्मिक्य:
इत्युक्त्वैका गुणप्रायान्, प्रैषीत् कलमतन्दुलान् । पयोभिः पूरितां पारीं, स्व-यशोभिरिवेतरा ॥ ६८ ॥ आज्यं प्राज्यं रसश्रीणां, साम्राज्यमिव चापरा । कलां सितोपलां चान्या, प्रीतिस्फीतिमिवोज्ज्वलाम् ॥ ६९ ॥ 'इति' एवं प्रकारेण 'उक्त्वा' कथयित्वा । 'एका' काचित् नारी। 'गुणप्रायान्' गुणतुल्यान् उज्ज्वलानित्यर्थः । 'कलमतन्दुलान्' कलमजातीयशालीन् । 'प्रैषीत्' प्राहिणोत् अयच्छदित्यर्थः । 'इतरा' अन्या नारी 'स्वयशोभिरिव' निजकीर्तिभिः इव । 'पयोभि:' दुग्धैः । 'पूरितां' पूर्णाम् । 'पारी' पात्रम् । 'पारीओ - घडो' इति भाषायाम् । प्रैषीत् ॥ ६८ ॥ 'अपरा' अन्या नारी । चः समुच्चये । रसश्रीणां साम्राज्यमिव । 'प्राज्यं' पुष्कलम् । 'आज्यं' घृतम् । प्रैषीत् । घृते हि रसाधिपत्यं सर्वविदितमेव । कथितं चायुर्वेदे - घृतमायुरिति । 'अन्या' नारी । 'प्रेमस्फीतिमिव' स्नेहविस्तारामिव । 'उज्ज्वलां' श्वेताम् । 'कलां' मधुराम् । 'सितोपलां' शर्कराम् । 'शर्करा तु सितोपला' इति हैम्याम् । प्रैषीत् ।। ६९ ।।
दत्ते स्नेहं वरारक्ष-स्त्यक्तनीरानुमानतः । सा सखीभ्यस्तु तं प्राप-दुज्झिताश्रु-जलाधिकम् ॥ ७० ॥ 'वरारक्षः' वरः श्रेष्ठः आरक्षः रक्षक: । लक्षणार्थतः अरघट्टवाहकः । ' त्यक्तनीराऽनुमानत:' आकृष्य मुक्तजलपरिमाणाऽनुमानतः । 'स्नेहं' तैलम् । 'दत्ते 'सिञ्चति । 'ऊँजवुं' इति भाषायाम् । दत्ते हि तैलं यन्त्रे यान्त्रिकाः । यति जलं अरघट्ट आकर्षति तदनुसारेणैव चक्रे स्नेहं पूर्यते । 'सा' धन्या । 'तु' परन्तु । 'उज्झिताश्रुजलाधिकम्' नेत्रमुक्तबाष्प-नीरादपि अधिकम् । 'तं' स्नेहम् । 'सखीभ्यः' प्रातिवेश्मिकीपार्श्वात् । 'प्रापत्' प्राप्तवती । ७० ।।
| CRERERED
प्रथमः
प्रक्रमः
॥ २४ ॥