________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शतैः सुपाटकः प्राप्यः, सहस्त्रैः प्रातिवेश्मिकः । तस्यास्तु प्रतिवेशिन्यः, प्राप्ताः कोर्टि परां पुनः ॥ ७१ ॥
शतैः रूप्यकैः सुपाटक:-शोभनो ग्रामैकविभाग: 'पाडो' इति भाषायाम् । प्राप्य: लभ्यः । 'सहस्त्रैः' (शोभन:) प्रातिवेश्मिकः प्राप्यः । 'तस्याः' धन्यायाः । 'तु' परन्तु पुनः । 'प्रतिवेशिन्यः' प्रातिवेश्मिक्यः । 'परां' परमाम् । कोटि कोटिसंख्यां उत्तमकक्षां च । प्राप्ता । रूप्यकशतव्ययेन एक: सुपाटको लभ्यते, सहस्र-व्ययेन च एक: सुप्रातिवेश्मिको लभ्यते किन्तु तस्याः एकरूप्यकस्यापि व्ययं विना सुप्रतिवेशिन्यः परां कोटि-उत्तमां कक्षा प्राप्ताः । कोटिरूप्यकलभ्यास्ता जाता इत्यर्थः ॥ ७१ ॥
दुष्प्रापा प्रतिवेशिन्यो दुःखादर्शनिभा अपि । तास्तस्या दुःख-शल्यायस्कान्तरत्नोपमाः पुनः ॥ ७२ ॥
'दुःखे' आपत्तौ । 'आदर्शनिभा अपि' दर्पणसदृश्य: अपि । प्रतिवेशिन्यः । 'दुष्प्रापा:'-दुर्लभाः । 'ताः' प्रतिवेशिन्यः। 'तस्याः' धन्यायाः । पुनः 'दुःखशल्यायस्कान्तरत्नोपमाः' दुःखशल्योध्दरणे अयस्कान्तरत्नोपमा लोहचुम्बकतुल्या अभूवन् ॥ ७२ ॥
धन्यमंन्या ततो धन्या, परमान्नस्य सङ्गमम् । विधाय सङ्गमस्याऽर्थेऽजनि प्रमदमेदुरा ॥ ७३ ॥
ततः 'धन्यंमन्या' आत्मानं धन्यं मन्यते इत्येवंशीला धन्या । 'सङ्गमस्य अर्थे '-कृते 'परमान्नस्य' पायसस्य । 'सङ्गमं' लाभं 'विधाय' कृत्वा । 'प्रमदमेदुरा'-प्रमोद-पुष्टा । अजनि-जाता ॥ ७३ ॥
विसृज्य वत्सरूपाणि, स्नातः शान्तपरिश्रमः । आजगाम निजं धाम, सङ्गमः शुभसङ्गमः ॥ ७४ ॥
828282828282828282828282828282828282
॥ २५ ॥