________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
__'वत्सरूपाणि' गोवत्सानि । विसृज्य त्यक्त्वा । स्नातः । 'शान्तपरिश्रमः' शान्तः परिश्रमः यस्य सः । 'शुभसङ्गमः' शुभस्य पुण्यस्य भावी सङ्गमो यस्य सः । सङ्गमः । 'निजं' स्वम् । धाम-गृहम् । आजगाम-आगच्छति स्म ॥ ७४ ।।
आस्तासने स निःशल्ये, निश्चले मातृकल्पिते । समाश्रित्योत्तरां काष्ठां, जैनधर्म इवामले ॥ ७५ ॥
उत्तरां काष्ठां-उत्तरदिशम् । धर्म-पक्षे-उत्तमां निष्ठाम् । 'समाश्रित्य' पुरस्कृत्य । 'अमले' उज्ज्चले । जैनधर्मे इव निःशल्ये-कंटकादि-शल्यरहिते । पक्षे-मायादिशल्यरहिते 'निश्चले' अचले-पक्षे दुर्वादिभि: निष्कम्पे । 'मातृकल्पिते'जननीनिर्मिते । पक्षे-प्रवचनमातृजाते । आसने । स सङ्गमः आस्त-उपाविशत् ॥ ७५ ॥
माता ज्ञानवतीवास्य शिशोरगे चतुष्किकाम् । गृहिधर्मतरोनफलादानकृते न्यधात् ॥ ७६ ॥
'ज्ञानवती डव' भाविफलवेदित्री इव । 'माता' जननी । अस्य शिशोः बालस्य । 'अग्रे' पुरः । 'गृहिधर्मतरोः' गृहिधर्मः एव तरु: तस्मात् । 'फलादानकृते'-फल-ग्रहणार्थम् 'चतुष्किकां' काष्ठपीठिकाम् । 'बाजोठ' इति भाषायाम् । 'न्यधात्' अस्थापयत् ॥ ७६ ॥
तत्र कुण्डलिकां साऽथ भव्येव भवितव्यता । स्थापयन्त्य दुष्कर्म, किल कुण्डलितं व्यधात् ॥ ७७ ॥
अथ 'भव्या' रम्या । 'भवितव्यता इव' भाग्यमिव । सा । 'तत्र' चतुष्किकायाम् । 'कुण्डलिकां' वृत्ताकाररूपां रेखां अपमङ्गलाऽपनयनार्थम् । स्थापयन्ती कुर्वती । 'अस्य' शिशोः । 'किलः' निश्चये । 'दुष्कर्म'-दुरितम् । 'कुण्डलितं'सीमितम् । 'व्यधात्'-अकरोत् ॥ ७७ ॥
सतां चित्तमिवोदारं, सुविमृष्टं च वाक्यवत् । गात्रवच्च रुचेः पात्रं, स्थालं न्यास्थच्च तत्र सा ॥ ७८ ॥
828282828282828282828282828282828482
॥२६॥