________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सतां सज्जनानाम् चित्तमिव मन इव । उदारं-विशालं सज्जनपक्षे-स्वपरभेदाभावात् उदारम् । 'सतां वाक्य-वच्च' वचनवच्च । 'सुविमृष्टं'-शोधितम् । पक्षे-वितर्कितम् । 'गात्रवत्'-शरीखच्च । 'रुचेः' बुभुक्षायाः पक्षे-कान्तेः पात्रंस्थानम् । स्थालं भोजनभाजनम् । सा तत्र-कुण्डलिकायाम् न्यास्थत्-अस्थापयत् ॥ ७८ ॥
एष्यन्त्याः सहसा धर्मवाहिन्या दानसम्पदः । नासीरमिव तन्नीरं, करशुद्धिकरं बभौ ॥ ७९ ॥
'सहसा'-सपदि । 'एष्यन्त्याः '-आयास्यत्याः । 'दानसम्पदः' दानसम्पत्तेः । 'धर्मवाहिन्याः'-धर्म-नद्याः । पक्षेधर्म-सेनायाः । 'नासीरमिव' अग्रयानमिव । पक्षे-सेनायाः अग्रेसरसैन्यमिव । 'करशुद्धिकरं' हस्तशुद्धिकरम् । सेना पक्षेशुल्कशुद्धिकरं, सेनाकान्ताः सामन्ताः भयेन करं ददत्येव । 'तद् नीरं'-जलम् । 'बभौ'-भाति स्म । भोजनात् पूर्व क्रियते किल कर-शोधनम् ॥ ७९ ॥
सुभटस्वान्तवत् सोष्म, सुखदं न्याय्यवित्तवत् । मातृचित्तमिव स्निग्धं, सरसं सच्चरित्रवत् ॥ ८० ॥ सर्वथैव मनोहारि, गुरुशिक्षावचो यथा । माता प्रमुदिता तस्मै पायसं पर्यवेषयत् ।। ८१ ॥ (युग्मम् )
'प्रमुदिता'-प्रहृष्टा । 'माता' धन्या । 'तस्मै'-सङ्गमाय । 'पायसं' परमान्नम् । 'पर्यवेषयत्' भोक्तुं ढौकितम् । तच्च कीदृशम् ? 'सुभटस्वान्तवत्'-सैनिकमनोवत् । 'सोष्म'-उष्मणा सहितं उष्णमित्यर्थः । 'न्याय्यवित्तवत्'न्यायोपार्जितद्रविणवत्। 'सुखदं' शर्मप्रदम् । 'मातृचितमिव'-जननीमन इव । 'स्निग्धं' प्रेमयुक्तम् । पायसपक्षे-घृताम् । 'सच्चरित्रवत्' सतां चरित्रवत् । 'सरसं' रससहितम् । 'यथा गुरुशिक्षावचः' गुरूणां शिक्षावच: हितशिक्षावचनम् तथा 'सर्वथैव' सर्वप्रकारेणैव । मनोहारि चित्ताह्लादकारि ॥ ८० ॥ ८१ ॥
ARRARAUAYA8A8282828282828AKUR
॥२७॥