________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सिताघृताभ्यां तन्नीत्युत्साहाभ्यामिव वैभवम् । सफारीकृत्यान्यतः साऽगात् किल सन्तोषदृग्भयात् ।। ८२ ।।
'नीत्युत्साहाभ्यां' न्यायोल्लासाभ्याम् । 'वैभवमिव' द्रव्यमिव । 'तत्' पायसं सिताघृताभ्यां-शर्करासपिाम् । स्फारीकृत्य-शीतीकरणार्थं स्थाले विपुलीकृत्य । वैभवपक्षेऽपि नीत्युत्साहाभ्यां भवत्येव स्फारं वैभवम् । 'सन्तोषदृग्भयात्'सन्तुष्टदृष्टिदोषभयात् दृष्टिलगनभयात् । 'सा' धन्या । 'किलः' निश्चले । 'अन्यतः'-अन्यत्र । अगात्-अगच्छत् ॥ ८२॥ |
तपस्विमुनेः आगमनम्इतश्च कश्चिदागच्छच्चिन्तामणिरचिन्तितः । अकल्पितश्च कल्पद्रुः कामधेनुरकामिता ॥ ८३ ॥ योगाभ्यासरतिः सर्वविरति-प्रोल्लसन्मतिः । मासोपवासनिरतिर्मुक्तिमार्गगतिर्यतिः ॥ ८४ ॥ (युग्मम् )
इतश्च कश्चिद् यतिः-साधुः । 'आगच्छत् आयातः । कीदृशः स साधः? 'अचिन्तितः' अविचारितः । 'चिन्तामणि:'चिन्तारत्नम्। अकल्पितः अतकितः । 'चः' समुच्चये। कल्पद्रुः-कल्पवृक्षः । 'अकामिता'-असंभाविता । 'कामधेनुः'कामगवी ॥ ८३ ॥
'योगाभ्यासरतिः'-योगाभ्यासे रतिः यस्य सः । 'सर्वविरति-प्रोल्लसन्मतिः' सर्वविरतौ प्रौल्लसन्ती विकसती मतिः बुद्धिः यस्य सः । 'मासोपवासनिरतिः'-मासोपवासे निरति: नितरां रतिः यस्य सः । 'मुक्तिमार्गगतिः' मोक्षाध्वनि गति: गमनं यस्य सः ॥ ८४ ॥
यथा हि दक्षिणावर्त्तशङ्खः कृष्णश्च चित्रकः । पुण्यैरगण्यैः प्रत्यक्षस्तथा तस्याभवन्मुनिः ॥ ८५ ॥
828282828282828282828282828282828482
॥२८॥